________________
परि. ६.८५ ]
स्याद्वादरत्नाकरसहितः
मुच्चारयति । अथवा प्रयोजनान्तर निबद्धमनोवृत्तिर्डिम्भकदर्थनाम
कश्चित्पुमानात्मीयस्थानात् डिम्भोश्चाटनाभि
सहिष्णुर्देषाक्रान्तः उषेणैतद्वाक्यमभिधत्ते । एतस्माच्च वाक्यात्प्रवर्तमाना विप्रलम्भभाज एच जायन्ते । इत्याप्तोक्तेरन्यत्वादस्यागमाभासत्वम् । स्वरूपाभास एवं च प्रमाणस्य प्रदर्शितः । सम्यग्बोधाविधायित्वाद्धेयोऽयं नियमाद्बुधैः || ७०७ ॥८४॥
१०४१
अथ प्रमाणस्य संख्याभासोपदर्शनार्थमाहप्रत्यक्षमेवैकं प्रमाणमित्यादि संख्यानं तस्य संख्याभासमिति ।। ८५ ।।
प्रत्यक्ष परोक्षभेदाद्धि प्रमाणस्य द्वैविध्यमुक्तम् । तद्वैपरीत्येन प्रत्यक्ष- १० मेव प्रत्यक्षानुमानेनैव प्रत्यक्षानुमानागमा एव प्रमाणमित्यादिकं चार्वाकवैशेषिक सौगत सांख्यादितीर्थान्तरीयाणां संख्यानम् । तस्य पूर्वोक्तप्रमाणस्य संख्याभासं संख्याप्रतिरूपकम् । न खलु नास्तिकः परबुद्धयादिकमनुमानं विना प्रत्यक्षत एवं प्रतिपत्तुं समर्थः । तस्यास्तगोचरत्वात् । अनुमानतस्तु तत्प्रतिपत्तिस्वीकारे दुर्वारः प्रमाणा - १५ न्तराङ्गीकारः । तस्य तथा चाभ्युपगता प्रत्यक्षमेवैकं प्रमाणमिति प्रमाणसंख्या संख्याभासतां नातिक्रामति । सौगतकाणाद कापिलनैयायिकप्राभाकरभाट्टा अपि द्वित्रिचतुष्पञ्चषट्प्रमाणवादिनस्तर्काख्यं प्रमाणान्तरमन्तरेण स्वाभ्युपगतप्रमाणविशेषादेव साध्यसाधनयोर्न व्याप्तिमवसातुं पटीयांसः । प्रत्यक्षाद्यविषयत्वात्तस्याः | २० अतर्कप्रमाणतश्च तयोर्व्याप्त्यवसाय स्वीकारे स्वाभ्युपगतप्रमाणसंख्याभङ्गप्रसङ्गस्तेषाम् । न च प्रत्याक्षदिष्वेव तर्कस्यानुप्रवेश इति मन्तव्यम् । तेभ्यस्तस्य स्वरूपादिभिः पार्थक्येन पुरा प्रतिष्ठितत्वात् । कृतं च विस्तरतः पराभ्युपगतप्रमाण संख्याप्रत्याख्यानं द्वितीयपरिच्छेद इत्यलमिह प्रसंगेन ॥ ८५ ॥
६७
२५