________________
१२४०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ६ सू. ८१ साधनधर्म वा दृष्टान्तधर्मिण्युपसंहरति न पुनः साध्यधर्मिणि कृतश्च कुम्भ इत्युल्लेखेन ताविमौ द्वावपि यथोक्ततल्लक्षणोल्लचित्वादुपनयामासाविति ।। ८१ ॥
अथ निगमनाभासनिदर्शनमाह५ तस्मिन्नेव प्रयोगे तस्मात्कृतकः शब्द इति तस्मात्प
रिणामी कुम्भ इति चेति ॥ ८२॥ अत्रापि कश्चिन्मूढमतिम्तस्मिन्नेव प्रयोगे परिणामी शब्द इत्यादी कृतकश्च शब्द इत्युपनयानन्तरं निगमनप्रयोगचिकीर्षया तस्मा
स्कृतकः शब्द इत्युल्लेखेन साधनधर्ममेव साध्यधर्मिण्युपसंहरति न १० पुनः साध्यधर्मम् । तस्मात्परिणामी कुम्भ इत्युल्लेखेन वा साध्यधर्म
दृष्टान्तधर्मिण्युपसंहरति न पुनः साध्यधर्मिणि । द्वावप्येतौ प्ररूपिततल्लक्षणाननुषंगित्वान्निगमनाभासाविति । एवं पक्षशुद्धयायवयवपञ्चकस्य भ्रान्त्या वैपरीत्यप्रयोगे तदाभासपञ्चकमपि तर्कणीयम् ।
अनुमानाभासमिदं पक्षाभासादिसंभवं वादे । १५ नो वादिभिर्विधेयं जयलक्ष्मीसंगमाकाझैः ॥ ७०६ ॥८२॥
इत्थमनुमानाभासं प्रबन्धेनाभिधायाधुना क्रमायातमागमाभासमाहअनातवचनप्रभवं ज्ञानमागमाभासमिति ॥ ८३॥
प्राग्लक्षितस्वरूपादाप्ताद्विपरीतोऽनाप्तस्तस्य संबन्धि यद्वचनं ततः प्रभव उत्पत्तिर्यस्य तत्तथा ।। ८३ ॥ __अत्रोदाहरणमाह--- यथा भेकलकन्यकायाः कूले तालहिन्तालयोर्मूले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत
गच्छत शावका इति ॥ ८४ ॥ रागाक्रान्तो बनाप्तः पुरुषः क्रीडापरवशः सन्नात्मनो विनोदार्थ २५ किंचन वस्त्वन्तरमलभमानः शावकैरपि समं क्रीडाभिलाषेणेदं वाक्य
२०