________________
पार. ६ सू ८१] स्याद्वादरत्नाकरसहितः
१२३९ अनित्यः शब्दः कृतकत्वात् । यदकृतकं तन्नित्यं यथाकाशमिति विपरीतव्यतिरेक इति ॥ ७९ ॥
वैधर्म्यप्रयोगे हि साध्याभावः साधनाभावाक्रान्तो दर्शनीयः । न चैवमत्र साधनाभावस्य साध्याभावव्याप्ततयाभिधानादिति विपरीतव्यतिरेकत्वम् । एवं च व्याप्तौ क्रियमाणायां विषमव्याप्तिषु हेतुषु दुष्प- ५ रिहारो व्यभिचारः ! तथा हि-यदप्रयत्नानन्तरीयकं तन्नित्यमित्यत्र दुरापा व्याप्तिः । तडिदादेरप्रयत्नानन्तरीयकस्याप्यनित्यत्वात् । यद्यपि चाप्रदर्शितान्वयविपरीतान्वयाप्रदर्शितव्यतिरेकविपरीतव्यतिरेकेषु वस्तुनिष्ठो न कश्चिद्दोषस्तथापि परार्थानुमाने वचनगुणदोषानुसारेण वक्तुर्गुणदोषौ परीक्षणीयाविति भवत्येषां वाचनिकं दुष्टत्वमिति । १०
एवमष्टादश स्पष्टं दृष्टान्तस्य व्यवस्थिताः । दोषाः सन्न्यायमाहात्म्याज्ज्ञातव्यास्तर्ककर्कशैः ।७०५ ॥७९।।
अथोपनयनिगमनाभासौ लक्षयन्नाहउक्तलक्षणोल्लङ्घनेनोपनयनिगमनयोर्वचने तदाभा
साविति ॥ ८०॥ १५ हेतोः साध्यधर्मिण्युपसंहरणमुपनयः । साध्यधर्मस्य पुनर्निगमनमिति युफ्नयनिगमनयोर्लक्षणमाचचक्षे तदतिक्रमेण तयोर्वचसी तदाभासावुपनयाभासो निगमनाभासश्च वेदितव्यावित्यर्थः ।। ८० ॥
तत्रोपनयाभासं तावदुदाहरन्नाहयथा परिणामी शब्दः कृतकत्वात् । यः कृतकः २० स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द
इति कृतकश्च कुम्भ इति चेति ॥ ८१ ॥ इह कश्चन भ्रान्त्योपनयप्रयोगं रचयितुकामः साध्यधर्ममेव साध्य. धर्मिण्युपसंहरति न पुनः साधनधर्मम् । परिणामी च शब्द इत्युल्लेखेन