________________
१०४६
प्रमाणनयतत्त्वालोकालङ्कारः परि. ७ सू. १ नन्वेवमप्रमाणात्मको नयः कथं सम्यक्प्रतिपत्तिनिबन्धनं स्यान्मिथ्याज्ञानवत् । तथा हि-प्रमाणादपरश्चेन्नयस्तीप्रमाणमेवासावितरथा व्याघातः । सकृदेकस्य प्रमाणत्वाप्रमाणत्वनिषेधासंभवात्, प्रमाणत्वनिषेधिना प्रमाणविधानादप्रमाणत्वविरोधाभावादिति । तदपि न , पीडाकरम् । प्रमाणैकदेशस्य राश्यन्तरस्य सद्भावात् । न खलु नयस्य प्रमाणत्वमेव प्रमाणादेकान्तेनाभिन्नस्यानिष्टेः । नाप्यप्रमाणत्वम् । भेदस्यैवानभ्युपगमात्, देशदेशिनोः कथंचिद्भेदस्य साधनात् । येनात्मना प्रमाणात्तदेकदेशस्य भेदस्तेनाप्रमाणत्वम् । येन त्वभेदस्तेन प्रमाणत्व
मेव स्यादिति चेत् । हन्त । किमनिष्टं देशतः प्रमाणत्वाप्रमाणत्वयोर्न१. यस्येष्टत्वात्सामस्त्येन तन्निषेधात्समुद्रैकदेशस्य तथा समुद्रत्वासमुद्रत्वनिषेधवत् । यथोक्तम्
'नाप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः ।
स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ।।' इति । ___ ननु कात्स्न्येन प्रमाणं नयः संवादकत्वात्स्वेष्टप्रमाणवदिति १५ चेत् । मैवं वादीः । नयस्यैकदेशेन संवादकत्वात्कात्स्न्येन तद. सिद्धेः । कथमेवं प्रत्यक्षादेस्तत्प्रमाणत्वसिद्धिः। तस्यैकदेशेन संवादकत्वादिति चेत् । न । कतिपयपर्यायात्मकद्रव्ये प्रत्यक्षादेः संवादकत्वोपगमात् । एवंविधस्यैव सकलादेशित्वस्य प्रमाणतया पूर्वसूरिभिरभिधानात् 'सकलादेशः प्रमाणाधीन ' इति । न च सकलादेशित्वमेव सत्यत्वम् । विकलादेशिनो नयस्यासत्त्वप्रसंगात् । न च नयोऽपि सकलादेशी 'विकलादेशो नयाधीन ' इति वृद्धवचनात् । नाप्यसत्यो नयः । सुनिश्चितासंभवावाधकत्वात्प्रमाणवत् ।
१त. लो. पृ. १२३ श्लो. २१.