________________
प्रमाणनयतत्त्वा लोकालङ्कारः [ परि. ६ सू. ६८
नन्तरीयकत्वात् । ततः सकलहेतुगताव्यभिचरीतव्याप्त्यसिध्दद्यर्थं साधनिदर्शने साधनं साध्याक्रान्तमेव दर्शनीयमिति ।। ६८ ।। अथ वैधर्म्यदृष्टान्ताभासं प्रपञ्चयन्नाह -
१२३६
वैधर्म्येणापि दृष्टान्ताभासो नवधेति ॥ ६९ ॥ वैधर्म्येणापि न केवलं साधर्म्येण ॥ ६९ ॥
तानेव प्रकारानुद्दिशन्नाह--- असिद्धसाध्यव्यतिरेकः, असिद्धसाधनव्यतिरेकः, असिद्धो भयव्यतिरेकः, संदिग्धसाध्यव्यतिरेकः, संदिग्धसाधनव्यतिरेकः, संदिग्धोभयव्यतिरेकः, अ१० व्यतिरेकः, अप्रदर्शितव्यतिरेकः, विपरीतव्यतिरेकवेतीति ॥ ७० ॥
असिद्धोऽप्रतीतः साध्यस्य व्यतिरेकोऽभावो यस्मादसावसिद्धसाध्यव्यतिरेकः । एवमसिद्धसाधनव्यतिरेकादिष्वपि निरुक्तिः कार्या । चशब्देतिशब्दौ पूर्ववत् ॥ ७० ॥
अथैतेषामेव प्रकाराणां यथाक्रममुदाहरणान्युपदर्शयन्नाह
१५
तेषु भ्रान्तमनुमानं प्रमाणत्वात् । यत्पुनर्भ्रान्तं न भवतिन तत्प्रमाणम् । यथा स्वमज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वमज्ञानाभ्रान्तत्वस्यानिवृत्तेरिति ॥७१॥ निर्विकल्पकं प्रत्यक्षं प्रमाणत्वात् । यत्तु सविकल्पकं २० न तत्प्रमाणम् । यथा लैङ्गिकमित्यसिद्धसाधनव्यतिरेकः । लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः ॥७२॥ नित्यानित्यः शब्दः सत्त्वाद्यस्तु न नित्यानित्यः स न सन् । तद्यथा स्तम्भ इत्यसिद्ध । भयव्यतिरेकः