________________
-१२३७
पारे. ६ सू. ७५] स्याद्वादरत्नाकरसहितः स्तम्भान्नित्यानित्यत्वस्य' चाव्यावृत्तेरिति ॥७३॥
उत्तानार्थमिदं सूत्रत्रयमपि ॥ ७१ ॥ ७२ ।। ७३ ॥ असर्वज्ञोऽनातो वा कपिलः । अक्षणिकैकान्तवादित्वात् । यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी यथा सुगत इति संदिग्धसाध्यव्यतिरेकः ५ सुगतेऽसर्वज्ञतानाप्ततयोः साध्यधर्मयोावृत्तेः संदे
हादिति ॥ ७४ ॥ अयं च परमार्थतोऽसिद्धसाध्यव्यतिरेक एव । क्षणिकैकान्तस्य प्रमाणबाधितत्वेन तदभिधातुरसर्वज्ञत्वानाप्तत्वप्राप्तेः । केवलं तत्प्रतिक्षेपकप्रमाणमाहात्म्यपरामर्शनशून्यानां प्रमातृणां संदिग्धसाध्यव्यतिरे- १० कत्वेनाभासत इति तथैव कथितः । तथा हि यद्यपि सुगतः क्षणिकै. कान्तमभिहितवांस्तथापि सर्वज्ञत्वाप्तत्वे तस्य न सिध्दयतः । ताभ्यां सह क्षणिकैकान्ताभिधानस्यान्यथानुपपत्त्यसिद्धेः। असर्वज्ञानाप्तेनापि परप्रतारणाशयप्रवृत्तशठपुरुषेण तथाविधाभिधानस्य कर्तुं शक्यत्वात् । ततः सुगतादसर्वज्ञत्वानाप्तत्वलक्षणस्य साध्यस्य व्यावृत्तिः संदिग्धेति १५ संदिग्धसाध्यव्यतिरेकत्वामिति ॥ ७४ ॥ अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वात्, यः पुनरादेयवचनःस वीतरागः, तद्यथा शौद्धोदनिरिति संदिग्धसाधनव्यतिरेकः शौद्धोदनो रागा
दिमत्त्वस्य निवृत्तेः संशयादिति ॥७५ ॥ २० इदमत्र तात्पर्यम्-यद्यपि तदर्शनानुरागिणां शौद्धोदनेरादेयकचनत्वं प्रसिद्धम् । तथा हि----रागादिमत्त्वाभावस्तन्निश्चायकप्रमाणवैक
१ सत्त्वस्येत्यधिकं रत्नाकरावतारिकासुन्नेषु ।