________________
परि. ६ सू. ६८ ]
स्याद्वादरत्नाकरसहितः
मरणधर्माऽयं रागादिमत्त्वान्मैत्रवदिति संदिग्धस
मानधर्मेति ॥ ६४ ॥ मैत्रे हि साधनधर्मो रागादिमत्त्वाख्यः संदिग्धः ॥ ६४ ॥ नायं सर्वदर्शी सरागत्वान्मुनिविशेषवदिति ॥६५॥
संदिग्धोभयधर्मेति मुनिविशेषे सर्वदर्शित्वसरागत्वाख्यावुभावपि ५ साध्यसाधनधर्मी संदिग्धौ । पुरुषान्तराधिकरणधर्म कदम्ब कस्यार्वा - ग्दर्शिनामप्रत्यक्षत्वात् । असर्वदर्शित्वसरागत्वाव्यभिचारिलिङ्गादर्शनात्सर्वदर्शित्ववीतरागत्व निश्चायकलिङ्गादर्शनाश्च ॥ ६५ ॥
१२३५
रागादिमान्विवक्षितः पुरुषो वक्तृत्वादिष्टपुरुषवदित्यनन्त्रय इति ॥ ६६ ॥ १०
यद्यपि किलेष्टपुरुषे रागादिमत्त्वं च वक्तृत्वं च साध्यसाधनधर्मों तथापि यो यो बक्ता स स रागादिमानिति व्याप्त्यसिद्धेरनन्वयत्वम् || ६६ ॥
अनित्यः शब्दः कृतकत्वाद्घटवदित्यप्रदर्शितान्वय इति ।। ६७ ।। १५
अत्र यद्यपि वास्तवोऽन्योऽस्ति तथापि वादिना वचनेन प्रकाशित इत्यप्रदर्शितान्वयत्वम् ।। ६७ ।।
अनित्यः शब्दः कृतकत्वात्, यदनित्यं तत्कृतकं घटवदिति विपरीतान्वय इति ॥ ६८ ॥
साधर्म्यप्रयोगे हि साधनं साध्याक्रान्तमुपदर्शनीयम् । इह तु विप- २० र्यासदर्शनाद्विपरीतता | नन्वेवमप्यव्यभिचारान्न किंचिदनुपपन्नं पश्यामः । न खल्वनित्यत्वं कापि कृतकत्वं व्यभिचरतीति चेत् । न्याय्यमिदं समव्याप्तिषु साधनेषु न पुनर्विषमव्यातिषु । तथा हि-यदनित्यं तत्प्रयत्नानन्तरीयकमित्यत्र व्याप्तिर्नास्त्येव । विद्युदादेरनित्यस्याप्यप्रयत्ना