________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ६ सू. ५७ पलभ्यमानानित्यधर्मकं यथा घटादीति । तदित्थं कालात्ययापदिष्टप्रकरणसमाख्यहेत्वाभासद्वयस्य नैयायिकलक्षितस्यासिद्धादिभ्यः पृथ. ग्भूतस्यापरस्यापि संभवात्कथं त्रय एव हेत्वाभासाः प्ररूपिता इति ।
अत्रोच्यते----कालात्ययापदिष्टस्तावत्प्रत्यक्षादिनिराकृतसाध्यविषये प्रव. ५ र्तमानत्वादकिंचित्करदूषणेनैव दूषित इति नासिद्धादिभ्यः पृथक्प्ररूपयितुं युक्त इति । प्रकरणसमस्तु हेत्वाभासो न संभवत्येव । यतोऽत्र नित्यधर्मानुपलब्धिस्तावत्प्रसज्यरूपा पर्युदासरूपा वा हेतुः स्यात् । न तावदाद्यः पक्षः । तुच्छाभावस्य निषिद्धत्वेनासिद्धत्वात् ।
द्वितीयपक्षे पुनरनित्यधर्मोपलब्धिरेव हेतुः । सा च शब्दे यदि सिद्धा १० कथं नानित्यतासिद्धिः । अथ चिन्तासंबन्धिना पुरुषेणासौ प्रयुज्यत
इति न तत्र निश्चिता तर्हि कथं न संदिग्धासिद्धो हेतुर्वादिनं प्रति । प्रतिवादिनस्त्वसौ स्वरूपासिद्ध एव । नित्यधर्मोपलब्धेस्तत्रास्य सिद्धेः । एवमनित्यधर्मानुपलब्धिरपि परिक्षणीया । तन्न प्रकरणसमनामा पर
प्ररूपितः कश्चिद्धेत्वाभासः परीक्षापथमवतरतीति तल्लक्षणप्रणयनं १५ वायसदशनश्रेणिश्लाघनप्रायमेवेति स्थितम् । इह च श्रीसिद्धसेनदि
वाकरसूरिः 'सर्वमेवैकान्तवादिना समुपन्यस्यमानं .... .... .... ....कः प्रतिबन्धः । विशेषयोस्तु नियतदेशकालयोः प्रतिबन्धग्रहेऽपि तत्रैव तयोर्ध्वंसात्साध्यधर्मिण्यगृहीतप्रतिबन्ध एवान्यो विशेषो
हेतुत्वेनोपादीयमानः कथं नानैकान्तिक ' इति । ततः समन्तभद्रा२० चार्यमतेन समस्तः परोपन्यस्तो हेतुरनैकान्तिक एवेति स्थितम् । तथा चोक्तम् --
'असिद्धः सिद्धसेनस्य विरुद्धो मल्लवादिनः ।
द्वेधाः समन्तभद्रस्य हेतुरेकान्तसाधने । ' इति । तदेतच्चिरन्तनाचार्यायं मतत्रितयमपि संमतमेवास्माकमति२५ संक्षेपापेक्षया । यथोक्तविवक्षयासिद्धादिहेत्वाभासेष्वन्यतमस्यैव
युज्यमानत्वात् । शिष्यमतिविकासाथ तु तद्भेदप्रपञ्चोपदर्शनम्