________________
परि. ६ सू. ५९] स्याद्वादरत्नाकरसहितः
१२३३ तथा कैश्चिदाचार्यस्तीथिकोपन्यस्तः सर्वोऽपि हेतुः प्रत्येकमसिद्धो विरुद्धोऽनैकान्तिकश्च विवक्षया मन्यते । तथाहि--अनित्य एव शब्दः कृतकत्वाद्धटवदित्यत्र कृतकत्वमसिद्धम् । एकान्तानित्ये ध्वनौ तस्यासंभवात् । नित्यानित्यात्मकस्यैव कार्यस्योपपादितत्वात् । विरुद्धमप्येतद्भवति । एकान्तानित्यविपरीतनित्यानित्यात्मकस्यैव ५ शब्दस्य साधकत्वात् । अनैकान्तिकं चैतत् । विपक्षेऽपि नित्ये वर्तमानत्वात् । एतदपि न्यायोपपन्नत्वादनुमन्यत एव । हेत्वाभासास्तत्त्रयोऽपि प्रसिद्धा । न चत्वारः पञ्च वा न्यायतोऽत्र । . हेयाश्चैते वादिभिः स्वप्रयोगे । ज्ञात्वोद्भाव्यः साधने त्वन्यदीये ॥७०४॥
॥ ५७॥ १० मन्दमतीन्प्रति दृष्टान्तादियोगोऽप्यनुजज्ञ इति तदाभासानामप्यभिधेयत्वे प्राते दृष्टान्ताभासांस्तावदभिधत्तेसाधम्र्येण दृष्टान्ताभासो नवप्रकार इति ॥ ५८॥
दृष्टान्तो हि द्विप्रकारः साधर्म्यवैधाभ्यामभिहित इति मूलभेदापेक्षया तदाभासोऽपि द्विप्रकार एव संभवति साधर्म्यदृष्टान्ताभासो १५ वैधर्म्यदृष्टान्ताभासश्चेति । तत्र यः साधर्म्यण दृष्टान्त उक्तलक्षणस्तद्वदाभासत इति दृष्टान्ताभासो दृष्टान्तप्रतिरूपक इत्यर्थः । स नवप्रकारः ॥ ५८ ॥
प्रकारानेव कीर्तयन्नाह --- साध्यधर्मविकलः, साधनधर्मविकलः, उभयधर्म- २० विकलः, संदिग्धसाध्यधर्मा, संदिग्धसाधनधर्मा, संदिग्धोभयधर्मा, अनन्वयोऽप्रदर्शितान्वयो विप
रीतान्वयश्चेति ॥ ५९॥