________________
परि. ६ सु. ५७ ]
स्याद्वादरत्नाकरसहितः
न्यायसूत्रं ' कालात्ययापदिष्टः कालातीतः ' इति । यथा प्राप्तं हेतुप्रयोगकालमतीत्य, यो हेतुरपदिश्यते स कालात्ययापदिष्टः कालातीत उच्यते । इदमिह रहस्य- हेतोः प्रयोगकाल: प्रत्यक्षागमानुपहतपक्षपरिग्रहसमयस्तमतीत्य प्रयुज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिष्टो भवतीति । तस्योदाहरणमनुष्णस्तेजोऽ- ५ वयवी कृतकत्वाद्धादिवत् । ब्राह्मणेन सुरा पेया द्रवत्वात्क्षीरनीरवदिति । अत्र प्रथमेऽनुमाने प्रत्यक्षबाधितत्वं पक्षस्य । द्वितीये पुनरागमबाधितत्वमिति । तथाविधपक्षप्रयोगानन्तरं प्रयुक्तस्य कृतकस्वद्रवत्वाख्यहेतुयुग्मस्य स्वष्टं कालात्ययापदिष्टत्वमिति । प्रकरणसमस्य तु लक्षकमेतन्यायसूत्रम् - यस्मात्प्रकरणचिन्ता स निर्णयार्थम- १० पदिष्टः प्रकरणसमः ' इति विचार्यमाणौ पक्षप्रतिपक्षौ प्रकरणशब्देनात्राभिधीयेते । पक्षप्रतिपक्षयोश्चैत लक्षणम्
“एकाधिकरणों धर्मों तुल्यकालौ विरोधिनौ । पृथक्परिग्रही पक्षप्रतिपक्षायुदाहृतों ॥ " इति ।
१२३१
ततश्च प्रकरणस्य चिन्ता संशयात्प्रभृत्या निर्णयाद्यद्यपि भवति १५ तथापीह विमर्शात्मिकैत्र गृह्यते । सा यस्माद्भवति । कस्माच्च सा भवति विशेषानुपलम्भात्स एव विशेषानुपलम्भो यदा निर्णयार्थमपदिश्यते तदा प्रकरणमनतिवर्तमानत्वात्प्रकरणसमो भवति प्रकरणे पक्षे प्रतिपक्षे च समस्तुल्य इत्यर्थः । तस्योदाहरणम् - अनित्यः शब्दो नित्यधर्मान्पलब्धेर्घटादिवत् । यत्तु पुनर्नित्यं तन्नानुपलभ्यमाननित्यधर्मकं यथा - २० त्मादि । एवमेकेनान्यतरानुपलब्धेरनित्यत्वप्रसिद्धौ साधकत्वेनोपन्यासे सति द्वितीयः प्राह - यद्यनेन प्रकारेणानित्यत्वं साध्यते तर्हि नित्यतासिद्धिरप्यस्तु, अन्यतरानुपलब्धेस्तत्रापि सद्भावात् । तथा हिनित्यः शब्दोऽनित्यधर्मानुपलब्धेरात्मादिवत् । यत्पुनर्न नित्यं तन्नानु
१ मो. सू. १२९.
२ गौ. सु. १/२/७३ न्या. मं. पृ. ५९० ।