________________
२०१८ प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सू. ५१
स्वसाध्यं गमयति । ततश्चानित्यः शब्दोऽनित्यत्वादित्यत्र न प्रतिज्ञाथैकदेशत्वेनानित्यत्वस्य हेतोरसिद्धत्वं किन्तु स्वरूपेणैव । तथा च. वाद्यसिद्धादावेवान्तर्भूतत्वात्प्रतिज्ञार्थंकदेशासिद्धः पृथक्कथयितुं न युक्त इति पुरापि चायं पराकृत इति कृत निर्दलितदलनाभियोगेन । ५ एवं च परोपदर्शितानामसिद्धप्रकाराणां केषांचिदिहैवान्तर्भावकरणा
कतिपयानां पुनर्दूषणात्प्रकारद्वयमेवासिद्धस्य व्यवस्थितम् । उभयासिद्धावन्यतरस्यासिद्धश्चेति । ननु नाम्त्येवान्यतरासिद्धानामहेत्वाभासः । तथा हि-परेणासिद्ध इत्युद्भाविते यदि वादी तत्साधक प्रमाणं न ब्रवीति तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथा ब्रूयात्तर्हि प्रमाणस्यापक्षपातित्वादुभयोरप्यसौ सिद्धोऽन्यथा साध्यमप्यन्यतरासिद्धं न कदाचित्सिध्येदिति व्यर्थः प्रमाणोपन्यासः स्यादिति चेत् । तदयुक्तम् । यतो वादिना प्रतिवादिना वा सभ्यसमझ स्वोपन्यस्तो हेतुः प्रमाणतो यावन्न परं प्रति साध्यते तावत्तं प्रत्यस्य सिद्धेरभावात्कथं नान्यतरासिद्धता । नन्वेवमप्यस्यासिद्धत्क गौणमेव स्यादिति चेत् । एवमेतत् । प्रमाणतो हि सिद्धेरभावादसिद्धोऽसौ न तु स्वरूपतः, न खलु रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावत्कालं मुख्यतस्तदाभासो भवतीति । ततश्च---
अविनामावता यस्य न प्रमाणेन केनचित । प्रतीतिपथमायाता सोऽसिद्ध इति कीर्तितः ।। ७०४ ।। ५१॥
अधुनाविरुद्धलक्षणाभिधानार्थमाहसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरभ्यवसीयते स.
विरुद्ध इति ॥ ५२ ॥ यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुक्तः स्यात् । तदा स विरुद्धो हेत्वाभास इत्यर्थः ।। ५२।। २५ अत्रोदाहरणमाह--