________________
परि. ६ सू. ५३ ] स्याद्वादरत्नाकरसहितः यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञाना
दिमत्त्वादिति ॥५३॥ प्रत्यभिज्ञानमादिर्येषां ते प्रत्यभिज्ञानादयः,पत्यभिज्ञानस्मरणप्रमाणतदाभासनिश्चयहितप्राप्त्यहितपरिवर्जनं संसारमोक्षतत्कारणादयस्ते यस्य सन्ति स प्रत्यभिज्ञानादिमान् , तस्य भावस्तत्त्वं तस्मान्नित्य एव पुरुष, ५. इति कश्चित्कापिलादिः प्रतिजा नीते तस्यायं हेतुः स्थिरैकस्वरूपपुरुषसाध्यविपरीतपरिणामिपुरुषणैव व्याप्तत्वाद्विरुद्धः । तस्य हि वादिनो भ्रान्त्युत्पत्तेनिमित्तं प्रतिक्षणनश्वरेषु चेतनाचेतनेष्वर्थेषु प्रत्यभिज्ञानादीनामसम्भवप्रतीतिः । तथा हि-प्रतिक्षणमत्यन्तोच्छेदिषु भावेषु यथा बाह्यं वस्तु निर्मुलोच्छेदि तथान्तरमपीति पुरुषान्तरचित्तवदेक• १० सन्तानेऽपि स्मृतिप्रत्यभिज्ञाने न स्याताम् । ततश्चेदं प्रमाणमयं प्रमाणाभास इति निश्चिन्वन्न कश्चिदस्तीति हितप्राप्त्यहितपरिवर्जनव्यवहारोच्छेदः स्यात् । एकस्य स्थायिनः पुरुषस्याभावाच्च संसारमोक्षत. करणकार्यकारणभावादिव्यवस्था परमार्थतो नास्त्येवेति प्रत्यभिज्ञानादीनां तत्रासम्भवः । तथा सौगतोऽप्यनित्य एव पुरुषः प्रत्यभि. १५ ज्ञानादिमत्त्वादिति प्रमाणयति । तस्याप्ययं हेतुस्त्यन्तोच्छेदिपुरुषसाध्यविपरीतपरिणामिपुरुषेण व्याप्यत्वाद्विरुद्धः। अस्यापि हि स्वात्मानमविच्छिन्नोत्पादव्ययप्रौव्यात्मकमनुभवतोऽपि विभ्रमहेतुः स्थिरैकस्वरूपे पुरुषेऽभ्युपगते प्रत्यभिज्ञानादीनामसम्भवप्रतिपत्तिरेव । तथा हि-यदि चेतनाचेतनं च स्थिरैकस्वरूपमेव तदा सुषुप्त्याद्यवस्थाया. २० मिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात्प्रत्यभिज्ञानादयः कदा. चिन्न स्युः । तद्भावे वा स्थिरैकत्वस्वरूपत्वहानिः । अवस्थाभेदादयं व्यवहार इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुपपत्तेः । व्यतिरेके तास्तस्येति सम्बन्धाभावः । अत्यतिरेके पुनरवस्थातैवेति तदवस्थः प्रत्यभिज्ञानादीनामत्राभावः । वाशब्दो विकल्पार्थः । २५