________________
परि. ६ सू. ५१ 1 स्याद्वादरत्नाकरसहितः विभ्रमे सति । प्रतिज्ञार्थंकदेशासिद्धो यथा---अनित्यः शब्दोऽनित्यत्वादिति । अत्रोच्यते । विशेष्यविशेषणव्यर्थविशेष्यव्यर्थविशेषणासिद्धस्तावद्वादिनः प्रतिवादिन उभयोर्वा भविष्यन्तीति वाद्यसिद्धादिष्वेव तेषामन्तर्भूतत्वान्न भेदेनाभिधानं युक्तम् । आश्रयसिद्धाश्रयैकदेशासिद्धौ तु न सम्भवतः । सर्वत्र विकल्पसिद्धस्य धर्मिणः सम्भवात् । ५ समर्थितं चैतत्प्रागेव तृतीयपरिच्छेदे । यत्पुनः कचिदनयोरुद्भावनं परान्प्रति तत्पराभ्युपगमापेक्षयैवेति । व्यधिकरणासिद्धस्तु न वस्तुतो हेतुदोषः । व्यधिकरणस्याप्युदेष्यति शकटं कृत्तिकोदयादुपरि वृषस्तडित्वानधस्तरङ्गिणी, पूरदर्शनादित्यादेर्गमकत्वप्रतीतेः । अविनाभावनिबन्धनो हि गम्यगमकत्वाभावो न त्वव्यधिकरणत्वनिबन्धनः । १. स श्यामस्तत्पुत्रत्वादित्यत्र हि सत्यपि साध्येन सह हेतोरेकाधिकरणत्वे गमकत्वं नास्ति । तन्निवन्धनाया अन्यथानुपपत्तेरभावात् । एवमनित्यः शब्दः पटस्थ कृतकत्वादित्यत्राप्यन्यथानुपपत्त्यभावादेव गमकत्वाभावो न पुनर्व्यधिकरणत्वादिति । विस्तरश्च व्यधिकरणस्यापि हेतोः साध्यसाधकत्वमधस्तात्प्रसाधितमित्यलमतिप्रसङ्गेन । भागासिद्धोऽप्यु. १५ भयस्यान्यतरस्य वाऽसिद्धः स्यादिति तयोरेवान्तर्भूतः । एवं सन्दिग्धा. सिद्धोऽपि सन्दिग्धाश्रयोप्येवमेव । तथा हि यद्देशं के कायितं तद्देशे. नैव मरेण साधं तदविनाभूतं, तथा यद्देशो धूमस्तद्देशेनैव धूमध्वजेनाविनाभूतः । तदिह यदि वादिप्रतिवादिनोरुभयोरपि न तदाश्रयनिश्चयस्तदा हेतुलक्षणस्याविनाभावस्योभाभ्यामनिश्चयादुभयासिद्धः । २० अन्यतरस्य तु तदनिश्चयेऽन्यतरस्यासिद्ध इति प्रतिज्ञार्थकदेशासिद्धोऽपि न भेदेनाभिधातुमुचितः । तस्य हि स्वरूपेणैवासिद्धत्वं न प्रतिज्ञार्थकदेशत्वेन धर्मिणा व्यभिचारात् । प्रतिज्ञार्थंकदेशोऽपि हि धर्मी ऋचिद्धेतुत्वेन प्रयुक्तः स्वसाध्यं साधयन्नुपलभ्यते । यथा प्रमाण स्वपरव्यवसायिज्ञानमेव भवति । प्रमाणत्वान्यथानुपपत्तेरित्यत्र । इह २५ हि प्रमाणाल्यो धर्येव हेतुत्वेनोपन्यस्तः । स्वपरव्यवसायिज्ञानत्वाख्यं