________________
१०१६ प्रमाणनयतस्वालोकालङ्कारः [परि. ६ स. ५१
अन्यतरासिद्धो यथा, अचेतनास्तरवो विज्ञानेन्द्रि
यायुनिरोधलक्षणमरणरहितत्वात् ॥ ५१ ॥
ताथागतो हि तरूणामचैतन्यं साधयन्विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति हेतूपन्यासं कृतवान् । स च जैनानां तरुचैतन्य५ वादिनामसिद्धः । तदागमे द्रुमेष्वपि विज्ञानेन्द्रियायुषां प्रमाणतः प्रतिष्ठितत्वात् । इदं च प्रतिवाद्यसिद्धयपेक्षयोदाहरणम् । वाद्यसिद्धयपेक्षया तु-अवेतनाः सुखादयः, उत्पत्तिमत्त्वादिति । अत्र हि वादिनः सांख्यस्योत्पत्तिमत्त्वमप्रसिद्धम् , तेनाविर्भावमात्रस्यैव सर्वत्र स्वीकृतत्वात् ।
नन्वित्थमसिद्धपकारप्रकाशनं परैश्चके-म्वरूपेणासिद्धः, स्वरूप १० वाऽसिद्धं यस्य सोऽयं स्वरूपासिद्धः, यथा अनित्यः शब्दः, चाक्षु
षत्वादिति । ननु चाक्षुषत्वं रूपादावस्ति, तेनास्य व्यधिकरणासिद्धत्वं युक्तम् । न, रूपाधिकरणत्वेनाप्रतिपादितत्वात् । शब्दधर्मिणि चोपदिष्टं चाक्षुषत्वं न स्वरूपतोऽस्तीति स्वरूपासिद्धम् । ) .... ....
.... धानब्रह्मेश्वरा अकृतकत्वादाश्रयैकदेशो न सिद्धः । अस्य परमा१५ णवः प्रसिद्धाः । प्रधानादिकं तु न सिद्धमिति । व्यधिकरणासिद्धो
यथा--अनित्यः शब्दः पटस्य कृतकत्वाद्विभिन्नमधिकरणमाश्रयो यस्यासी व्यधिकरणः स चासावसिद्धश्चेति । ननु शब्देऽपि कृतकत्व. मस्ति । तत्कथमस्यासिद्धत्वमिति चेत् । तदसत्यम् । तस्य हेतु
त्वेनाप्रतिपादितत्वात् । न चान्यत्र प्रतिपादितमन्यत्र सिद्धं भवति । अति२. प्रसङ्गात भागासिद्धो यथा--अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात् ।
प्रयत्नानन्तरीयकत्वं हि मेघगर्जितादिलक्षणे पक्षभागे न सम्भवतीति भागासिद्धम् । सन्दिग्धासिद्धो यथा-ज्वलनवानयं महीधरनितम्बो बाप्पादिभावसन्दिग्वधूमत्वादिति । अत्र हि बाप्पादिभावेन सन्दिग्धो
धूमप्रबन्धः पावकप्रतीतये हेतुत्वेनोपन्यस्त इति सन्दिग्धासिद्धत्वम् । २५ सन्दिग्धाश्रयो यथा--इह निकुञ्ज मयूरः केकायितादिति तदापातदेश