________________
परि. ६ सू. ५१ ]
स्याद्वादरत्नाकरसहितः
to
तिरोभावमात्रस्यैव सर्वत्र तेनाभिधानात् । तदयुक्तम् । एवं सति क्षणिकतां साधयतो भवतः कथं नाप्रसिद्धविशेषणत्वं दोषो भवेत्, क्षणिकतायाः सपक्षे क्वाप्यप्रसिद्धेः । विशेष्यस्य तु धर्मिणः सिद्धिर्विकल्पादपि प्रतिपादितेति कथमप्रसिद्धताऽस्य ! | एतेनाप्रसिद्धो भयोऽपि परास्तः ॥ ४६ ॥ पक्षाभासान्निरूप्य हेत्वाभासानाहु:असिद्धविरुद्धानैकान्तिकास्त्रयो हेत्वाभासाः ॥४७॥ निश्चितान्यथाऽनुपपत्त्याख्यै कहे तुलक्षगविकलत्वेनाहेतवोऽपि हेतुस्थाने निवेशाद्धेतुवदाभासमाना हेत्वाभासाः ॥ ४७ ॥ तत्रासिद्धमभिदधति
यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः ॥ ४८ ॥
अन्यथाऽनुपपत्तेर्विपरीताया अनिश्चितायाश्च विरुद्धानैकान्तिकत्वेन कीर्तयिष्यमाणत्वादिह हेतुस्वरूपाप्रतीतिद्वारे कैवान्यथाऽनुपपत्त्यप्रतीतिरवशिष्टा द्रष्टव्या देतुस्वरूपाप्रतीतिश्चेयमज्ञानात्, सन्देहात् विपर्ययाद्वा विज्ञेया ॥ ४८ ॥ अथामुं भेदतो दर्शयन्ति-
स द्विविध उभयासिद्धोऽन्यतरासिद्धश्च ॥ ४९ ॥ उभयस्य चादिप्रतिवादिसमुदायस्यासिद्धः । अन्यतरस्य वादिनः, प्रतिवादिनो वाऽसिद्धः ॥ ४९ ॥ तत्राद्यभेदं वदन्ति -
उभयासिद्धो यथा परिणामी शब्दश्चाक्षुषत्वात्
11 40 11
चक्षुषा गृह्यत इति चाक्षुषस्तस्य भावश्चाक्षुषत्वं तस्मात् । अयं च वादिप्रतिवादिनोरुभयोरप्यसिद्धः, श्रावणत्वाच्छब्दस्य ॥ ५० ॥
द्वितीयं भेदं वदन्ति -
१०
१५
૧૯