________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ६ सू. ४५
प्रतिपत्तृभ्यामेकत्वानुभूते फलनिवहशालिनि सहकारतरौ तन्मध्यादेकः स्मरणाभासः परतन्त्रः कालान्तरे द्वितीये यति यथाऽहो वयस्य स सहकारतरुः फंलपटलीविकल इति । ततो द्वितीयस्तं प्रति ब्रूते हन्त तवायं पक्षो मामकीनेन सम्यक्स्मरणेन निराक्रियतेऽहं हि तं सहकारतरुं सान्द्रफलप्राग्भारभारिणं सम्यक्स्मरामीति । प्रत्यभिज्ञाननिराकृतसाध्यधर्मविशेषणो यथा --- सदृशेऽपि तत्कचन वस्तुनि कश्चन कञ्चनाधिकृत्योर्ध्वता सामान्यभ्रान्त्या पक्षी कुरुते तदेवेदमिति । तस्यायं पक्षस्तिर्यक्सामान्यालम्बिना तेन सदृशमिदमित्येवंरूपेण सम्यक्प्रत्यभिज्ञानेन निराक्रियत इति । तर्कनिराकृतसाध्यधर्मविशेषणो
१०१४
....
ring
....
१० यथा
....
( यो' यस्तत्पुत्रः स श्याम इति व्याप्तिः समीचीनेति । अस्यायं पक्षो यो जनन्युपभुक्तशाकाद्याहारपरिणामपूर्वकस्तत्पुत्रः, स श्याम इति व्याप्तिग्राहिणा सम्यक्तर्केण निराक्रियते ॥ ४५ ॥
द्वितीयं पक्षाभासं संभेदमुपदर्श्य तृतीयमुपदर्शयन्ति - १५ अनभीप्सित साध्यधर्मविशेषणो यथा स्याद्वादिनः शाश्वतिक एव कलशादिरशाश्वतिक एव वेति वदतः ॥ ४६ ॥ स्याद्वादिनो हि सर्वत्रापि वस्तुनि नित्यत्वैकान्तः, अनित्यत्वैकान्तो वा नाभीप्सितः, तथापि कदाचिदसौ सभाक्षोभादिनैवमपि वदेत् । एवं २० नित्यः शब्द इति ताथागतस्य वदतः प्रकृतः पक्षाभासः । ये त्वप्रसिद्धविशेषणाप्रसिद्धविशेप्याप्रसिद्धोभयाः पक्षाभासाः परैः प्रोचिरे, नामी समीचीनाः । अप्रसिद्धस्यैव विशेषणस्य साध्यमानत्वात्, अन्यथा सिद्धसाध्यताऽवतारात् । अथात्र सार्वत्रिकः प्रसिद्धथभावो विवक्षितो न तु तत्रैव धर्मिणि, यथा साङ्ख्यस्य विनाशित्वं कापि धर्मिणि न प्रसिद्धम्, १ रत्नाकरावतारिकाया उद्धृतम् ।