________________
'फार. ६ सू. ४५] स्याद्वादरत्नाकरसहितः नृतोभयानुभयरूपतया निश्चेतुमशक्यत्वादिदं तत्त्वमिदमतत्त्वमिति परिच्छेदकं न भवतीति प्रतिजानीते । तयोर्द्वयोरपि प्रतिज्ञानं स्वबचनेन निराक्रियते । तत्राद्यस्य तावद्वचनं स्ववचनेनेत्थं निराक्रियते सर्वप्रमाणभावमभ्युपगच्छतः स्वमपि वचनं स्वाभिप्रायप्रतिपादनपरं नास्तीति याचंयमत्वमेव तस्य श्रेयः । ब्रुवाणम्तु नास्ति प्रमाणप्रमेयपरिच्छेदकमिति स्ववचनं प्रमाणीकुर्वन्बल इति स्ववचनेनैवासौ ब्याहन्यते । द्वितीयस्यापि प्रतिज्ञानं स्ववचनेनेत्थं निराक्रियते । यदि सर्व प्रमाणं सन्दिग्धसत्यान्तादिस्वभावं तींदमपि प्रतिज्ञावचनं नास्ति प्रमेयपरिच्छेदकं प्रमाणमिति सन्दिग्धमसत्यानृतादिस्वभावमेव । सन्दिग्धमेवेति, प्रमेयररिच्छेदकप्रमाण .... .... .... मेन १० ब्रूवात् । ब्रुवाणस्तु निश्चिन्वान एवं ब्रवीतीति स्ववचनेनैव व्याहन्यते । अनिश्चयादेव ब्रवीतीति चेत् । तद्युन्मत्तकवद्यरिकचन वादीत्युपेक्षणीयोऽसौ न्यायवादिभिः । यद्वा यदि प्रमाणं प्रत्यक्षादिप्रभेदभिन्नमस्ति कथं तत्प्रमेयपरिच्छेदकं न स्यात् । अथ तत्प्रमेयपरिच्छेद..... .... .... .... .... णं प्रमाणं च प्रमेयपरिच्छेदकं १५ च न भवतीति स्ववचनव्याघातः । एवं निरन्तरमहं मौमी, सदैवाप्रसवधर्मिणी मे जननी, नित्यं ब्रह्मचारी मे जनकः, इत्यादीन्यपि स्ववचननिराकृतसाध्यधर्म.... .... .... पुणैर्निरूपणीयानि न तु स्ववचनस्य शब्दरूपत्वात्तन्निराकृतसाध्यधर्मविशेषणः पक्षाभासः प्रानिगदितागमनिराकृतसाध्यधर्मविशेषण एव २० पक्षाभासेऽन्तर्भवतीति किमर्थमस्य भेदेन कथनमिति चेत् । एवमेत• . . त्, तथापि शिष्यशेमुषीविकासार्थमस्यापि पार्थक्येन कथनमिति न कश्चिद्दोषः । एवमेते प्रत्यय .... ........ .... .... विशेषणादयः साक्षात्सूत्रोपात्ताः पञ्चमद्वितीयपक्षाभासस्य प्रकाराः, प्रदर्शिताः । शेषास्त्वादिशब्देन सूचितास्त्रयोऽस्य प्रकाराः २५ प्रदर्श्यन्ते । तत्र स्मरणनिराकृतसाध्यधर्मविशेषमो यथा---उभाभ्यां