________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ६ . * प्रमाणादिव्यवहारस्यापारमार्थिकले तत्त्वातत्त्वविचारोऽनर्थकः स्यात् ।। तेन, तव्यवस्थाया असिद्धेः । तदुक्तम्
'प्रमाणापरमार्थत्वे तत्वातत्त्वविचारणा ।
न युक्ता तेन तत्सिद्धरसिद्धेः परमार्थतः ॥' ५ ननु च लोकमतीतिः प्रत्यक्षादिप्रमाणेभ्यो नान्या । तथा च प्रत्यक्षादिनिराकृतसाध्यधर्मविशेषणेष्वेव पक्षाभासेषु लोकनिराकृतसाध्यधर्मविशेषणोऽन्तर्भविष्यत्यलमस्य तेभ्यः पृथगुपन्यासेनेति चेत् । सत्यम् , एवमेतत् । तथापि विनेयमनीषोन्मीलनार्थमस्य पार्थक्येन निर्देशः ।
ननु चन्द्रः शशीत्येषा लोकप्रतीतिरप्रत्यक्षादिस्वभाश स्वविपरीतप्रति१० ज्ञानमचन्द्रः शशीत्येतहाधते । ततः प्रकृतपक्षामासस्य प्राक्तनेष्वन्त
र्भावकथनमन्यास्यमिति चेत् । तन्न । यतश्चन्द्रः शशीत्येषापि लोकप्रतीतिः प्रत्यक्षत्वं नातिवर्तते । तथा हि-सर्योऽपि स्पष्टावलोको लोकः शशिनं नन्द्रादिशब्दसंसर्गयोग्यमेव पश्यति न तदयोन्यम् । तस्मा.
सापि प्रत्यक्षव्यापारपरामर्शिनी स्वतन्त्रा न भवतीति प्रत्यक्षमेव । एवं १५ शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छशुक्तिवदित्यादिकमप्यत्रोदाहरण
दृश्यम् । लोके हि प्राण्यङ्गत्वाविशेषेऽपि किंचिन्नु पवित्रं वस्तु स्वभावतः प्रसिद्धम् । यथा गोपिण्डोत्पन्नत्वाविशेषेऽपि वस्तु स्वभावतः पवित्रं तदुग्धं न पुनस्तपिशितमिति ॥ ४४ ॥
इदानी पञ्चमं प्रकारमाह-- २० स्ववचननिराकृतसाध्यधर्मविशेषणो यया नास्ति प्रमेयपरिच्छेदकं प्रमाणमिति॥४५॥
प्रमेयं सामान्यविशेषाद्यात्मकं जीवादिवस्तु, तस्य परिच्छेदक निश्चायकं प्रमेयपरिच्छेदकं प्रमाणं प्रत्यक्षादिकं नास्तीति कश्चित्प्र
तिजानीते । प्रमाणस्य हि प्रतिभासात्मनः सत्यत्वं स्वतः प्रतिपत्तुं २५ न पार्यते न परतो. नोभयतो नाप्यनुभूयत इति कथं तत्प्रमेयपरि
च्छेदकं भवेत् । तथा परः सदपि प्रत्यक्षपरोक्षभेदभिन्नं प्रमाणं सत्या