________________
परि. ६ सू. ४४ स्याद्वादरत्नाकरसहितः १०॥
अथ तृतीय प्रकारमाहआगमनिराकृतसाध्यधर्मविशेषणो यथा जैनेन
रजनिभोजनं भजनीयमिति ॥४३॥ " अत्थंगयम्मि आइच्चे पुरत्था य अणुग्गए ।
आहारमइयं सव्वं मणसा वि ण पत्थइ ॥” इत्यादिना हि प्रसिद्धप्रामाण्येन . परमागमवाक्येन क्षपाभक्षणपक्षः प्रतिक्षिप्यमाणत्वान्न साधुत्वमास्कन्दतीति । एवं जैनेन परकलत्रमभिल. पणीयं, क्षीरवृक्षफलं भक्षणीयं, नवनीतमास्वादनीय, पिशितमशनीयं, सीधु सेवनीयं, भवान्तरेणैव सुखपदं पुण्यम्, इत्याद्युदाहरणमालाऽ. प्यत्रावसेया। सर्वत्रागमबाधसद्भावस्याविशेषादिति ।। ४३ ॥ १० __ अथ चतुर्थ प्रकारमाह-- लोकनिराकृतसाध्यधर्मविशेषणो यथा न पारमा
थिकप्रमाणप्रमेयव्यवहार इति ॥४४॥ ___ इह लोकशब्देन लोकप्रतीतिरुच्यते । ततश्च लोकेन लोकप्रतीत्या निराकृतं साध्यधर्मरूपं विशेषणं यस्य स लोकनिराकृतसाध्यधर्म- १५ विशेषण इत्युद्देशः । शेषं पुनरुदाहरणम् । तत्र परमार्थस्तत्त्वं तस्मिन् भवः पारमार्थिकः, प्रमाणं च प्रमेयं च प्रमाणप्रमेये । व्यवहारो हिता. हितोपेक्षणीयार्थानां प्राप्तिपरिहारोपेक्षालक्षणस्तत्स्वरूपभेदनिश्चयल. क्षणश्च स पारमार्थिको भवतीति कश्चित्प्रतिजानीते । तदेतत्तस्य . प्रतिज्ञानं लोके प्रतीत्या निराक्रियमाणत्वात्प्रकृतपक्षाभासतां नाति- २०. वर्तते । तथा हि-सर्वापि लोकप्रतीतिरेवंविधा समस्ति यत्सारमार्थिक प्रमाणं तेन तत्त्वातत्त्वविवेकः क्रियते, इति लोकप्रतीतिरपि प्रान्तैवेति चेत् । न । दृष्टहान्यदृष्टकल्पनापतेः । सा च न्यायविरुद्धा । किंच १ अस्तंगत आदित्य पुरस्तावानुद्गते । आहारात्मकं सर्व मनसापि न प्रार्थयेत् ॥२८॥
इति छाया । दशवै. स. ८ अ. २ उ...