________________
१०१० प्रमाणनयतत्त्वालोकालङ्कारः परि. ६ सू. ४१
परपरिदृश्यमानेऽप्यवयवे सुखाद्यनुभवस्य पुनः पराप्रत्यक्षत्वात् । तदव्यतिरेके हि तद्वत्तस्यापि .... .... त्तिस्तदव्यतिरेकात् । न च सुखाद्यनुभवस्तत्र नास्ति । स्वात्मनोऽनुभवसिद्धत्वादिति
भूतविलक्षणात्मनिषेधवादी स्वसंवेदनप्रत्यक्षेण बाध्यते । न च स्वरूप५ भेदेन प्रतिपन्नयोरभेदाभ्युपगमो युक्तः । सर्वाभेदपसङ्गात् । सोऽपि
च प्रमाणादिव्यवहारप्रवृत्तिविरुद्धः । न च स्वपरप्रका .... .... वूतानुभवस्याप्यसत्यत्वप्रसङ्गात् । प्रपश्चतः पुनरात्मसिद्धिः सप्तमपरिच्छेदे विधास्यते, इत्यलमिहातिविस्तरेण । एतेनैव चैतन्य
शून्यं चतुर्भूतमात्रं तत्त्वमित्येतदपि प्रतिज्ञावचः प्रत्यक्षनिराकृतसाध्य१० धर्मविशेषणत्वेनाभिहितमवगन्तव्यम् । एवमकठिना पृथ्वी, अद्रवं वारि, अनुष्ण .... .... नात्तमिह द्रष्टव्यम् ॥ ४१ ।।
द्वितीयं प्रकारमाहअनुमाननिराकृतसाध्यधर्मविशेषणो यथा नास्ति
सर्वज्ञो वीतरागो वेति ॥४२॥ सर्वं त्रिकालविषयानन्तरूपं वस्तु साक्षाधुगपज्जानातीति सर्वज्ञः । वीतो विगतो रागो यस्मादसौ वीतरागस्तदभावं कश्चित्साधयितुकामः प्रतिजानीते .... .... .... .... मनुमाननिरा. कृतम् । तथा हि यः कश्चिन्निन्हासातिशयवान्स कचि
स्वकारणजनितनिर्मूलक्षयः, यथा कनकादिमलो निन्हासातिशयवती २० च दोषावरणे इत्यनेनानुमानेन सुव्यक्तैव बाधास्य । एतस्माद्धयनु
मानाधत्र वचन पुरुषधौरेये दोषावरणयोः सर्वथा प्रक्षय.... .... .... .... सिद्धिः प्रत्यक्षपरिच्छेदे कृतेति कृतमिहातिप्रयासेन । एवमपरिणामी शब्द इत्यपि प्रतिज्ञानं परिणामी शब्दः कृतकत्वात्,
घटवदित्यनुमानेन निराक्रियमाणत्वात्प्रकृतपक्षाभासोदाहरणत्वेना२५ वगन्तव्यम् ॥ ४२॥
१५