________________
परि. ६ स. ४१] स्यावादरत्नाकरसहितः सिद्धसाधनं प्रसिद्धसम्बन्ध इत्यपि संज्ञाद्वयमस्य पक्षाभासस्याविरुद्धमिति ।। ३९ ॥
अथ द्वितीयपक्षाभासं भेदतो निगमयन्नाह---- निराकृतसाध्यधर्मविशेषणः प्रत्यक्षानुमानागमलोकस्ववचनादिभिः साध्यधर्मस्य निराकरणादनेकप- ५
कार इति ॥४०॥ प्रत्यक्षनिराकृतसाध्यधर्मविशेषणः, अनुमाननिराकृतसाध्यधर्मविशेषणः, आगमनिराकृतसाध्यधर्मविशेषणः, लोकनिराकृतसाध्यधर्मविशेषणः , स्ववचननिराकृतसाध्यधर्मविशेषणः, आदिशब्दात्स्मरणनिराकृतसाध्यधर्मविशेषणस्तर्कनिराकतसाध्यधर्मविशेषणश्चेत्येवं द्वितीयः १० पक्षाभासोऽनेकमकारी भवतीति ।। ४० ॥
एतेषु प्रथमं प्रकारमाह-- प्रत्यक्षनिराकृतसाध्यधर्मविशेषणो यथा नास्ति
भूतविलक्षण आत्मेति ॥४१॥ .... .... माणेष्वपि पक्षाभासेषु निरुक्तिः कार्या। १५ पृथिव्यप्तेजोवायुभ्यः शरीरत्वेन परिणतेभ्यो भूतेभ्यो विलक्षणोऽन्य आत्मा नास्तीति कश्चिद्धान्तः प्रतिजानीते । तत्प्रतिज्ञावचनं स्वसंवेदनप्रत्यक्षेण निराक्रियते । यथा शीतोऽमिरिति प्रतिज्ञावचनं बाह्येन्द्रियप्रत्यक्षेण । तथा हि--यथा बाह्याः पृथिव्यादयो बाधेन्द्रियप्रत्यक्षतथा प्रतिभासन्तें तथा शरीरमपि । न च तथात्मा न च सन्नास्त्येव स्वसंवेदनानुभूय- २० मानत्वात् । तदभावे च मृतावस्थायामिव सर्वः प्राणिगणो वर्ततेति सकलप्रमाणादिव्यवहाराभावः स्यात् । न .... .... ..... .... हकत्वात् । नापि शरीरस्यैवावस्थाविशेषश्चैतन्य पराप्रत्यक्षत्वात् । शरीराव्यतिरिक्तमप्यन्त्रादिवत्पराप्रत्यक्षमेतदिति चेत् । मैवम् । अन्त्रादेः कदाचिदुदरविदारणे परप्रत्यक्षत्वात् । २५