________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ८ स. २२ अप्रदर्शिते तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुवादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चाऽनित्यः शब्दः कृतकत्वादित्युक्ते कृतकत्वादित्यसिद्धो हेतुः, कृतकत्व.
मसिद्धम्, असिद्धोऽयं हेतुरित्येवमादिमिः प्रकारैरनेकधा संभवति । ५ अथ दूषणमेकमनेक वा कीर्तयेत् , किमत्र तत्त्वम् ? 1 पर्षदजिज्ञासा
यामेकमेव, तस्मादेव परपक्षप्रतिक्षेपम्य सिद्धेर्द्वितीयादिदोषाभिधानस्य वैयर्थ्यात् , तजिज्ञासायां च संभवे यावत्स्फूर्त्यनेकमपि प्रौढिपसिद्धेः, इति ब्रूमः ।
" दूषणं परपक्षस्य स्वपक्षस्य च साधनम् । . . प्रतिवादी द्वयं कुर्याद् भिन्नाभिन्नप्रयत्नतः " ॥ १ ॥
इति संग्रहश्लोकः । तृतीयकक्षायां तु वादी द्वितीयकक्षास्थितप्रतिवादिप्रदर्शितदूष. गमदूषणं कुर्यात् , अप्रमाणयेच्च प्रमाणम् , अनयोरन्यतरस्यैव करणे
बादाभासप्रसङ्गात् ! उदयनोऽप्याह-नापि प्रतिपक्षसाधनमनिर्वयं १५ प्रथमस्य साधनत्वावस्थितिः, शकितप्रतिपक्षत्वादिति; ' अदूषयस्तु
रक्षितस्वपक्षोऽपि न विजयी, लाथ्यस्तु स्याद् , वञ्चितपरप्रहार इव तमप्रहरमाणं इति चेति । न च प्रथमं प्रमाणं दूषितत्वात् परित्यज्य
परोदीरितं च प्रमाण दूषयित्वा स्वपक्षसिद्धये प्रमाणान्तरमाद्रियेत, · कथाविरामाभावप्रसङ्गादित्युक्तमेव । अत एव स्वसाधनस्य दूषणानु२० द्वारे परसाधने विरुद्धत्वोद्भावनेऽपि न जयव्यवस्था, तबुद्धारे तु
तदुद्भावन सुतरां विजयायेति को नाम नानुमन्यते ? । सोऽयं सर्वविजयेभ्यः श्लाध्यते : विजयो : यत्परोऽजीकृतपक्षं परित्याज्य स्वपक्षा
राधनं कार्यत इति । वादी तृतीयकक्षायां प्रतिवादिप्रदर्शितं दूषणं . : दूषयेत्, पूर्व प्रमाण चाप्रमाणयेदिति । एवं चतुर्थपश्चमकक्षादावपि २५ स्वयमेव विचारणीयम् ॥ २२ ॥