________________
परि. ८ सू. २२ ]
रत्नाकरावतारिकासहितः
3
दयं चतुर्थकक्षायां तत्परिहारोद्वारमनवधारयन् प्रकारान्तरेण परपक्षं प्रतिक्षिपेत्; स्वपक्षं च साधयेत् तदानीं वादिना तदषणे कृते स पुनरन्यथा समर्थयेत्; इत्येवमनवस्था किञ्च एवं चेत् प्रतिवादी विरुद्धत्वोद्ध वनमुखेनाऽनित्यत्वसिद्ध स्वीकृतमपि कृतकत्वं हेतुं परिहृत्य सत्त्वादिरूपं हेत्वन्तरमुररीकुर्यात् तदा वाद्यपि नित्यत्वसिद्धौ ५ तमुपात्तं परित्यज्य प्रत्यभिज्ञायमानत्वादि साधनान्तरमभिदधानः कथं वार्येत ?, अनिवारणे तु सैवानवस्था सुस्थायते । तदिदमिह रहस्यम्—उपक्रान्तं साधनं दूषणं वा परित्यज्य नापरं तदुदीरयेदिति । विरुद्धत्वोङ्गावनवत् प्रत्यक्षेण पक्षाधोद्भावनेऽप्येकप्रयत्न निर्वयें एव परपक्षप्रतिक्षेपस्वपक्षसिद्धी । कदाचिद् भिन्नप्रयत्न निर्वत् १० एते संभवतः, तत्र चायमेव क्रम :- प्रथमं परपक्षप्रतिक्षेपः, तदनु स्वपक्षसिद्धिरिति । यथा-नित्यः शब्दश्चाक्षुषत्वात् प्रमेयत्वाद् वा इत्युक्तेऽसिद्धत्वानैकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् अनित्यः शब्दः कृतकत्वात् इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । ननु न परं निगृह्य स्वपक्षसिद्धये साधनमभिधानार्हम्, पराजितेन सार्धं विवादाभावात् न १० खलु लोकेऽपि कृतान्तवक्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति । तत् किमिदानीं द्वयोजिगीषतोः कचिदेशे राज्याभिषेकाय स्वीकृत - विभिन्नराजबीजयोरेकश्चेदन्यतरं निहन्यात्, तदा स्वीकृतं राजबीज न तत्राभिषिञ्चेत् ? तदर्थमेव सौ परं निहतवान् । अकलङ्कोऽप्य भ्यधात्---
2
2
1.
3
" विरुद्धं हेतुमुद्भाव्य वादिनं जयंतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते " ॥ १ ॥ इति ।
१९४१
२०
परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते तावदनुवदेत्, निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्वं दोषविषयमेकदैवाऽनुवदेत्; एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात् २५ क्रमेण दोषवचने कार्ये । ततो निर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनीयः,