________________
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. ८ स. २२
मनुद्भावितं चेति, एतेऽपि त्रयो यथोत्तरमुत्तममध्यमाधमा इति परमार्थः । .
"स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् । . यदि प्रौदिः प्रिया तत्र, दोषानपि तदुद्धरेत्" ॥ १ ॥
इति संग्रहश्लोकः । द्वितीयकक्षायां तु प्रतिवादिना स्त्रात्मनो निर्दोषत्वसिद्धये वादिवदवदातमेव वक्तव्यम् । द्वयं च विधेयम्-परपक्षप्रतिक्षेपः, स्वपक्षसिद्धिश्च । तत्र कदाचिद् द्वयमप्येतदेकेनैव प्रयत्नेन निवर्त्यते, यथा--
नित्यः शब्दः कृतकत्वात् , इत्यादी विरुद्धोद्भावने, परप्रहरणेनैव पर१० प्राणव्यपरोपणात्मरक्षणप्रायं चैतत् प्रौढतारूपप्रियसखीसमन्वितामेव
विजयश्रियमनुषञ्जयति । असिद्धतााद्भावने तु स्वपक्षसिद्धये साधनान्तरमनित्यः शब्दः सत्त्वादियुपाददानः केवलामेव तामवलम्बते । तदप्यनुपादानस्त्वसिद्धतायुद्भावनभूतं श्लाध्यतामात्रमेव
प्रामोति, न तु प्रियतमां विजयाश्रयम् । यद्दयनोऽप्युपादिशत्-वादि. १५ वचनार्थमवगम्याऽनूय दूषयित्वा प्रतिवादी स्वपक्षे स्थापनां प्रयु.
जीत, अप्रयुञ्जानस्तु दूषितपरपक्षोऽपि न विजयी, श्लाघ्यन्तु स्यात्, आत्मानमरक्षन् परघातीव वीर इति । तद्यदीच्छेत् प्रौढतान्वितां विजयश्रियम् , तत्राऽप्रयत्नोपनतां तयोः प्राणभूतां हेतो
विरुद्धतामवधीरयेत् , निपुणतरमन्विप्य सति संभवे तामेव प्रसा२० धयेत् । न च विरुद्धत्वमुद्भाव्य स्वपक्षसिद्धये साधनान्तरमभिद
धीत, व्यर्थत्वस्य प्रसक्तेः । एवं तृतीयकक्षास्थितेन वादिना विरुद्धत्वे परिहते चतुर्थकक्षायामपि प्रतिवादी तत्परिहारोद्धारमेव विदधीत, न तु दूषणान्तरमुद्भाव्य स्वपक्षं साधयेत् , कथाविरामाभावप्रसङ्गात् । नित्यः शब्दः कृतकत्वात् , इत्यादौ हि कृतकत्वस्य विरुद्धत्व. , मुद्भावयता प्रतिवादिना नियतं तस्यैवाऽनित्यत्वसिद्धौ साधनत्वमध्यवसितम् , अत एव न तदाऽसौ साधनान्तरमारचयति । स चे.