________________
परि. ८ स. २२ रत्नाकरावतारिकासहितः सामर्थ्याऽप्रदर्शनेऽपि दोषाभावात् स्थितमेतदकरणे न गुणो न दोष इति । करणे तु यदेव संदेहस्य विवादम्य वा भवेदास्पदम् , तस्यैवोद्वारं कुर्वाणः समलंक्रियते प्रौढतागुणेन, यदुद्धरेत् तत्संदिग्धमेव विवादापन्नमेव चोद्धरेदित्येवमवधार्यते, न तु यावत् संदिग्धं विवादापन्नं वा तावत् सर्वमुद्धरेदेव; असंख्याता हि सन्देहविवादयोर्भेदाः, १ कस्तान कात्स्न्येन ज्ञातुं निराकर्तुं वा शक्नुयात् ? । इति यावत्तेभ्यः प्रसिद्धिः प्रतिभा का भगवती प्रदर्शयति, तावदुद्धरणीयम् , तदधिको. द्धारकरणे तु कदर्शाते सिद्धसाधनाभिधानादिदोषेण । सिद्धमपि साध. यश्च कदा नामायं वावदूको विरमेदिति सत्यं व्याकुलाः स्मः, एकेन प्रमाणेन समर्थितम्यापि हेतोः पुनः समर्थनाय प्रमाणान्तरोपन्यास- १० प्रसङ्गात् , साध्यादेरप्येवम् , इति न काञ्चिदमुष्य सीमानमालोकयामः ! तेन सिद्धस्य समर्थनमनर्थकत्वाद् न कर्तव्यम् । 'सिद्धसाध्यसमुच्चारणे सिद्धं साध्यायोपदिश्यते' इति न्यायात् साध्यसिद्धये त्वभिधानस्यावश्यमुपेयम् , अपरथा ह्यसिद्धमासिद्धेन साधयतः किं नाम न सिद्धयेत् ? । यत्र तु सिद्धत्वेनोपन्यस्तम्यापि सिद्धत्वं संदिग्धं विवादाधि. १५ रूई वा भवेत् , तत्र तत्समर्थनं सार्थकमेव । ततः स्थितमेतद् यो यत् सिद्धमभ्युपैति, तं प्रति न तत्साधनीयमिति । बौद्धो हि मीमांसकं प्रत्यनित्यः शब्दः सत्त्वात् , इत्यभिधायोभयसिद्धस्यार्थक्रियाकारित्वरूपस्य सत्त्वस्यासिद्धत्वमुद्धरन् न कमप्यर्थं पुष्णाति, केवलं सिद्धमेवार्थं समर्थयमानो न सचेतसामादरास्पदम् । अनैकान्ति- २० कत्वं पुनराशङ्कयोद्धरन्नधिरोपयति सरसे सभ्यचेतसि स्वप्रौढिवल्ल. रीम् । तदिह यथा-कश्चित् चिकित्सकः कुतश्चित् पूर्वरूपादेः सभा. व्यमानोत्पत्ति दोषं चिकित्सति, अन्यः कश्चिदुत्पन्नमेव, कश्चित्त्वसंभाव्यमानोत्पतितयाऽनुत्पन्नतया च निश्चिताभावम् , इत्येते त्रयोऽपि यथोत्तरमुत्तममध्यमाधमाः तद्वद्वाद्यप्येकः कथञ्चिदाशयमानोद्भावनं २५ झेष समुद्धरति, अपरः परोद्भावितम् , अन्यस्त्वनाशक्यमानोद्भावन