________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ८ सु. २२ दिनः, सभ्यानां वा । न तावद् वादिनः; तस्यासत्यपि सामर्थे तन्निर्णयाभिमानेनैव प्रवृत्तेः, किं पुनः सति प्रतिवादिसभ्यसंदेहापोहाय तु सामर्थ्य प्रमाणेनैव प्रदर्शनीयम् ? । तत्रापि प्रमाणान्तरेण सामर्थ्या.
प्रदर्शने संदेहः, प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शनेनाऽनवस्था । ५. अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यवसीयते, हेतोश्च प्रत्यक्षा.
दिभिः प्रतिपत्तिः, न चाऽनवस्था, तथा परार्थानुमानेऽपीति चेत् , तार्ह यथा प्रत्यक्षादेः कस्यचिदभ्यासदशायां स्वतःसिद्धप्रमाणतयाऽनपेक्षितसामर्थ्यप्रदर्शनस्यापि गमकत्वम् , एवमन्ततो गत्वा कस्यचित् परार्थानु
मानस्यापि तथैव तदवश्यमभ्युपेयम् ; इति गतं सामर्थ्यप्रदर्शननियमेन । १० अथ यत्रानभ्यासदशायां परतः प्रामाण्यसिद्धिः, तत्र तत्प्रदर्शनीयमेवेति
चेत् , यदि न प्रदश्यते किं स्यात् ? , ननूक्तमेव-संदेहात् प्रारब्धासिद्धिः, इति चेत् । तर्हि यथा सदपि सामर्थ्यमप्रदर्शितं न प्रतिवादिना प्रतीयते, तद्वत् संदेहोऽपि प्रतिवादिगतोऽप्रदर्शितः कथं वादिना प्रती. येत ? । स्वबुद्धयोत्प्रेक्ष्यत इति चेत्, इतरेणापि यदि तत्सामर्थ्य स्वबुद्धथैवोत्प्रेक्ष्यत, तदा किं भ्रूणं स्यात् ? । अथ वादिनः साधनसमर्थनशक्तिं परीक्षितुं न तदुत्प्रेक्ष्यते, ताई प्रतिवादिनो दुषणशक्तिं परीक्षितुमितरेणापि न संदेहः स्वयमुत्प्रेक्ष्यते । अथ द्वितीयकक्षायां दुषणान्तरवत् संदेहमपि प्रदर्शयन् स्फोरयत्येव दूषणशक्ति प्रतिवादी,
इति चेत् । तर्हि वाद्यपि तृतीयकक्षायां दूषणान्तरवत् संदेहमपि व्यपो२० हमानः किं न समर्थनशक्ति व्यक्तीकरोति? । किञ्च, केनचित् प्रका
रेण सामर्थ्यप्रदर्शनात् कस्यचित् संदेहम्यापोहेऽपि तस्य प्रकारान्तरेण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः? ; विप्रतिपत्तेरिव संदेहस्यापि धपरिमिताः प्रकाराः, इति कियन्तस्ते स्वयमेवाशकयाऽऽशङ्कय शक्याः
पराकर्तुम् ? । न च प्रदर्शितेऽपि सामर्थे स्वपक्षकपक्षपातिनोऽस्य २५ विश्रम्भः संभवति, येन प्रारब्धमवबुध्येत । दृश्यन्ते हि साधन
मिव तत्समर्थनमपि कदर्थयन्तः प्रतिवादिनः, इति साधनमभिधाय