________________
परि. ८ सू. २३) रत्नाकरावतारिकासहितः सारेण साधनं दूषणं चाऽर्थान्तरन्यूनक्लिष्टतादिदोषाऽकलुषितं वक्तव्यम् । तत्रार्थान्तरं प्रागेवाऽभ्यधायि। न्यूनं तु नैयायिकस्य चतुरवयवाद्यनुमानमुपन्यस्यतः । क्लिष्टं यथा-यत् कृतकं, कृतकश्वायं, यथा घटः, तस्मादनित्यस्तत्तदनित्यम् , कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । नेयार्थं यथा-शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्दे- ५ न कृतकशब्दो लक्ष्यते, तेन कृतकवादित्यर्थः । व्याकरणसंस्कारहीन यथा-शब्दोऽनित्यः कृतकत्वस्मादिति । असमर्थ यथा--अयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लील यथा-नोदनार्थे चकारादिपदम् । निरर्थकं यथा-शब्दो वै अनित्यः कृतकत्वात् खल्विति । अपरामृष्टविधेयांशं यथा--अनित्यशब्दः कृतकत्वादिति, अत्र १० हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग निर्देश्यम् , न तु समासे गुणीभावकालुप्यकलकितमिति । पृथनिर्देशेऽपि पूर्वमनुवाद्यस्य शब्दस्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्याऽलब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि । तदेवमादि वदन् वादी समाश्लिप्यते नियतमश्लाध्यतया ! प्रतिवादिना तु स्वस्यानुषङ्गिक- १ श्लाध्यत्यसिद्धये तत्प्रकाश्य साधनदूषणे यत्नवता भाव्यम्, न तु तावतैव स्वात्मनि विजयश्रीपरिरम्भः संभावनीयः । प्रकटिततीर्थान्तरीयकलकोऽकलकोऽपि प्राह-वादन्याये दोषमात्रेण यदि पराजयप्राप्तिः पुनरुक्तवच्छूतिदुष्टार्थदुष्टकल्पनादुष्टादयोऽलङ्कारदोषाः पराजयाय कल्पेरनिति । ननु वादी साधनमभिधाय कण्टकोद्धारं कुर्वीत वा, न वा ?, का- २० मचार इत्याचक्ष्महे । तत्राऽकरणे तावद् न गुणो न दोषः । तथाहिस्वप्रौढेरप्रदर्शनाद् न गुणः, परानुद्भावितस्यैव दूषणस्यानुद्धाराच्च न दोषः; उद्भावित हि दूषणमनुद्धरन दुष्येत । अथ कथं न दोषः, यतः सत्यपि हेतोः सामर्थं तदप्रतिपादनात् संदेहे प्रारब्धासिद्धिः, इत्यवश्यकरणीयं दूषणोद्धरणमिति चेत् । कम्यायं सन्देह ःवादिनः, प्रतिवा- २५
--
-
-
-
-
१ चौदनमित्यर्थः।