________________
११३६
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ८ सू. २२
क्षणार्थं तदितरस्यामेवादेऽभिषेकः कार्यः । अथ वादिनस्तूष्णीम्भावादेव पराजितत्वेन कथापरिसमाप्तेः किमितरस्याग्रवादाभिषेकेण ?, इति चेत् । स्यादेतत्, यदि प्रतिवादिनोऽपि पक्षो न भवेत्, सति तु तस्मिन् वादीव तमसमर्थयमानोऽसौ न जयति, नापि जीयते, प्रौढिप्रदर्शनार्थं तु तद्गृहीतमुक्तमप्रवादमङ्गीकुर्वाणः श्लाध्यो भवेत् । उभावप्यनङ्गीकुर्वाणी ५ तु भङ्गयन्तरेण वादमेव निराकुरुत इति तयोः सभ्यैः सभाबहिर्भाव एवाऽऽदेष्टव्यः । तत्र वादी स्वपक्षविधिमुखेन वा परपक्षप्रतिषेधमुखेन वा साधनमभिदधीत, यथा - जीवच्छरीरं सात्मकं प्राणादिमत्त्वान्यथानुपपत्तेरिति, नेदं निरात्मकं तत एवेति । अत्र च यद्यप्यर्थान्तराद्यभिवानेऽपि वस्तुनः साधनदूषणयोरसंभवाद् न कथोपरम:, तथापि परा- १० श्रनुमाने वक्तुर्गुणदोषा अपि परीक्ष्यन्त इति न्यायात् स्वात्मनोऽलाव्यत्वविघाताय यावदेवावदातं तावदेवाभिधातव्यम् । अन्यथा शब्दानित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रयत्नप्रेरितो वायुः प्राणो नामोर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतस्मिन् स्थाने प्रयत्नेन विधार्यते स विधार्यमाणः स्थानमभिहन्ति, तस्मात् स्थानाद् १५ ध्वनिरुत्पद्यते ' इत्यादिशिक्षासूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां कर्णकोटरप्रवेशप्रक्रियां च प्रकाश्य य एवंविधः शब्दः सोऽनित्यः कृतकत्वादिति हेतुमुपन्यस्य पुनः पटकुटादिदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैव न समाप्येत, कुतः प्रतिवादिनोऽवकाशः । किञ्च, परप्रतिपत्तये वचनमुच्चार्यत इति यावदेव परेणाऽऽकाडितम् तावदेव युक्तं वक्तुम् । लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्वकीयकुलादिवर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमेवोच्यतामिति चानुशिष्यते ।
,
पुनस्तदवदातम् इति चेत्, यस्मिन्नभिहिते न भवति मनागपि सचेतसां चेतसि क्लेशलेशः, एते हि महात्मानो निष्प्रतिमप्रतिभाप्रेयसीपरिशीलनसुकुमारहृदयाः स्वल्पेनाप्यर्थान्तरादिसंकीर्तनेन प्रकृतार्थ - २५ प्रतिपत्तौ विघ्नायमानेन न नाम न क्लिश्यन्ति । तेन स्वस्वदर्शनानु