________________
परि. ८. २२ ]
रत्नाकरावतारिकासहितः
११३५
नयेन कामपि कष्टां दशामाविशेयुः, न पुनः परमार्थं प्रथयितुं प्रभवेयुः, इत्युक्तं प्रज्ञाऽऽज्ञैश्वर्यक्षमा माध्यस्थ्यसंपन्न इति ॥ २० ॥ वादिसभ्याभिहितावधारणकलव्यपोहादिकं चास्य कर्म ॥ २१ ॥
ཉ
4t
वादिभ्यां सभ्यैश्चाभिहितस्याऽर्थस्याऽवधारणम्, वादिनोः कलहव्यपोहो यो येन जीयते स तस्य शिष्य इत्यादेर्वादिप्रतिवादिभ्यां प्रतिज्ञातस्यार्थस्य कारणा, पारितोषिक वितरणादिकं च सभापतेः कर्म । 'विवेकवाचस्पतिरुच्छ्रिताज्ञः क्षमान्वितः संहृतपक्षपातः । सभापतिः प्रस्तुतवादिसभ्यैरभ्यर्थ्यते वादसमर्थनार्थम् " ॥ १ ॥ २१॥ १० अथ जिगीषुवादे कियत्कक्षं वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतुमाहु:
सजिगीषुकेऽस्मिन् यावत्सभ्यापेक्षं स्फूर्तों वक्तव्यम्
॥ २२ ॥
सह जिगीषुणा जिगीषुभ्यां जिगीषुभिर्वा वर्तते योऽसौ तथा १५ तस्मिन् वादे, वादिप्रतिवादिगतायाः स्वपक्षसिद्धिपरपक्षप्रतिक्षेपविषयायाः शक्तेरशक्तेश्च परीक्षणार्थं यावत् तत्रभवन्तः सभ्याः किलाऽपेक्षन्ते, तावत् कक्षाद्वयत्रयादि स्फूर्ती सत्यां वादिप्रतिवादिभ्यां वक्तव्यम् । ते च वाच्यौचित्यपरतन्त्रतया कदाचित् कचित् कियदप्यपेक्षन्ते इति नास्ति कश्चित् कक्षा नियमः । इह हि जिगीषुतरतया यः कश्चिद् विप२० श्चित् प्रागेव पराक्षेपपुरःसरं वादसङ्ग्रामसीन प्रवर्तते, तस्य स्वयमेव
वादविशेषपरिग्रहे, तदपरिग्रहे सभ्यैस्तत्समर्पणे वाऽमवादेऽधिकारः । तेन सभ्यसभापतिसमक्षमक्षोभेण प्रतिवादिनमुद्दिश्याऽवश्यं स्वसिद्धान्तबुद्धिवैभवानुसारितया साधु साधनं स्वपक्षसिद्धयेऽभिधानीयम् । अथ क्षोभादेः कुतोऽपि प्रागेवाऽसौ वक्तुमशक्तो भवेत्, तदानीं दूरीकृतस२५ मस्तमत्सरविकारैः समासारैरुभयोरपि वस्तुव्यवस्थापन दूषणशक्तिपरी