________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. ८ सू. १९ भायां कथाफलकथनं चैषां कर्माणि ॥ १९॥ यत्र स्वयमस्वीकृतप्रतिनियतवादस्थानको वादिप्रतिवादिनी समुप्रतिष्ठेते, तत्र सभ्यास्तौ प्रतिनियतं वादस्थानकं सर्वानुवादेन दूध्या
नुवादेन वा, वर्गपरिहारेण वा वक्तव्यमित्यादिर्योऽसौ कथाविशेषस्त ५ चाङ्गीकारयन्ति, अस्याग्रवादोऽस्य चोत्तरवाद इति च निर्दिशन्ति,
वादिप्रतिवादिभ्यामभिहितयोः साधकबाधकयोर्गुणं दोषं चावधारयन्ति । यदैकतरेण प्रतिपादितमपि तत्त्वं मोहादभिनिवेशाद् वाऽन्यतरोऽनङ्गीकुर्वाणः कथायां न विरमति, यदा वा द्वावपि तत्त्वपरा
मुखमुदीरयन्तौ न विरमतः, तदा तत्त्वप्रकाशनेन तौ विरमयन्ति । २२० यथायोगं च कथायाः फलं जयपराजयादिकमुद्धोषयन्ति, तैः खलुद्धोषितं तन्निर्विवादतामवगाहते। "सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालिङ्गिता
स्तत्तच्छास्त्रसमृद्धिबन्धुरधियो निष्पक्षपातोदयाः । क्षान्त्या धारणया च रञ्जितहृदो बाढं द्वयोः संमताः ____सभ्याः शम्भुशिरोनदीशुचिशुभैर्लभ्यास्त एते बुधैः"॥१॥१९॥ प्रज्ञाज्ञैश्वर्यक्षमामाध्यस्थ्यसंपन्नः सभापतिः ॥२०॥
यद्यप्युक्तलक्षणानां सभ्यानां शाठ्यं न संभवति, तथापि वादिनः प्रतिवादिनो वा जिगीषोस्तत् संभवत्येवेति सभ्यानपि प्रति विप्रतिपत्तौ
विधीयमानायां नाऽप्राज्ञः सभापतिस्तत्र तत्समयोचितं तथा तथा विवे२० क्तुमलम् , न चासौ सभ्यैरपि बोधयितुं शक्यते । स्वाधिष्ठितवसुन्धरा
यामस्फुरिताऽऽज्ञैश्वर्यो न स कलहं व्यपोहितुमुत्सहते, उत्पन्नकोपा हि पार्थिवा यदि न तत्फलमुपदर्शयेयुः, तदा निदर्शनमार्किचित्कराणां स्युः, इति सफले तेषां कोपे वादोपमर्द एव भवेदिति । कृतपक्षपाते च सभा
पतौ सभ्या अपि भीतभीता इवैकतः किल कलङ्कः, अन्यतश्चालम्बित२५ पक्षपातः प्रतापप्रज्ञाधिपतिः समापतिरिति 'इतस्तटमितो व्याघ्रः' इति