________________
परि. ८ स्. २३j रत्नाकराषतारिकासहितः.. __ अथ तत्त्वनिर्णिनीषुवादे कियत्का वादिप्रतिवादिभ्यां वक्तव्यमिति निर्णेतमाहु:उभयोस्तत्त्वनिर्णिनीषुत्वे यावत् तत्त्वनिर्णय
यावत्स्फूर्ति च वाच्यम् ॥ २३ ॥ एकः स्वात्मनि तत्त्वनिर्णिनीषु:; परश्च परत्र, द्वौ वा परस्परम् , इत्येवं द्वावपि यदा तत्त्वनिर्णिनीष भवतस्तदा यावता तत्त्वस्य निर्णयो भवति, तावत ताभ्यां म्फतौं सत्यां वक्तव्यम् ; अनिर्णये वा यावत् स्फुरति तावद् वक्तव्यम् ! एवं च स्थितमेतत्--
स्वं स्वं दर्शनमाश्रित्य सम्यक् साधनदूषणैः । जिगीषोनिर्णिनीषोर्वा वाद एकः कथा भवेत् ॥ १॥ १० भगः कथात्रयस्याऽत्र निग्रहस्थाननिर्णयः ।
श्रीमद्नाकरप्रन्थाद् धीधनैरवधार्यताम् ॥ २॥ यत:--
प्रमेयरत्नकोटीभिः पूर्णो रत्नाकरो महान् । तत्रावतारमात्रेण वृत्तेरस्याः कृतार्थता ॥ ३ ॥ प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये । किञ्चिद् वचनचातुर्यचापलायेयमादधे ॥१॥ न्यायमार्गादतिक्रान्तं किञ्चिदत्र मतिभ्रमात् ।
यदुक्तं, तार्किकैः शोध्यं तत् कुर्वाणैः कृपां मयि ॥२॥ आशावासःसमयसमिधां संचयैश्चीयमाने
स्त्रीनिर्वाणोचितशुचिवचश्चातुरीचित्रभानौ । प्राजापत्यं प्रथयति तथा सिद्धराजे जयश्री
यस्योद्वाहं ब्यधित स सदा नन्दताद् देवसूरिः ॥ ३ ॥ प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः
कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः। ३