________________
११२९
परि. ८ सू. १.] रत्नाकरावतारिकासहितः निर्णिनीपुर्न, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी स्वात्मनि तत्त्वनिर्णिनीषुः, प्रतिवादी तु जिगीषुर्न स्वामनि तत्त्वनिर्णिनीषुर्न, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा बादी परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिर्णिनीषुः केवली च प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिर्णि. नीषुः, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च न । एवमेते चत्वारश्चतुष्काः षोडश । नअपलक्षितेषु चतुषु पातितेषु द्वादश भवन्ति
“अङ्गनैयत्यनिश्चित्यै वादे वादफार्थिभिः । द्वादशैवाऽवसातव्या एते भेदा मनस्विभिः" ॥ १॥ ९ ॥ अङ्गनियममेव निवेदयन्ति-- तत्र प्रथमे प्रथमतृतीयतुरीयाणां चतुरङ्ग एव, अन्यतमस्याऽप्यङ्गस्यापाये जयपराजयव्यव- १५
स्थादिदौःस्थ्यापत्तेः ॥ १०॥ उक्तभ्यश्चतुर्थ्यः प्रारम्भकेभ्यः प्रथमे जिगीषौ प्रारम्भके सति प्रथमस्य जिगीषोरेव, तृतीयस्य परत्र तत्त्वनिर्णिनीषुभेदस्य क्षायोपशमिकज्ञानशालिनः तद्भेदस्यैव, तुरीयस्य केवलिनश्च प्रत्यारम्भकस्य प्रतिवादिनश्चतुरङ्ग एव प्रकरणाद् वादो भवति । वादिप्रतिवादिरूपयोरङ्ग- २० योरभावे वादस्यानुत्थानोपहततैव, इति तयोरयत्नसिद्धत्वेऽप्यपराङ्गद्वयस्यावश्यम्भावप्रदर्शनार्थं चतुरङ्गत्वं विधीयते । प्रसिद्धं च सिद्धांशमिश्रितस्याऽप्यसिद्धस्यांशस्य विधानम् । यथा शब्दे हि समुच्चारित यावानर्थः प्रतीयते तावति शब्दस्याभिधैव व्यापार इति "निःशेषच्युत. चन्दनम्" इत्यादौ वाच्य एवैकोऽर्थ इति प्रत्यवस्थितं प्रति द्वावेतावर्थो २५ वाच्यः प्रतीयमानश्चेत्येवंरूपतया वाच्यस्य सिद्धत्वेऽपि प्रतीयमान