________________
प्रमाणन यत्तत्त्वालोकालङ्कारः
[ परि. ८ सू. 4
अयमिति परत्र तत्त्वनिर्णिनीषुर्गुर्वादिः, ज्ञानावरणीयस्य कर्मणः क्षयोपशमेन निर्वृत्तं ज्ञानं मतिश्रुतावधिमनः पर्यायरूपं व्यस्तं समस्तं वा यस्यास्ति स तावदेकः; द्वितीयस्तु तस्यैव क्षयेण यज्जनितं केवलज्ञानं तद्वान् । तदेवं चत्वारः प्रारम्भका :- जिगीषुः स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र तत्त्वनिर्णिनीषू च क्षायोपशमिकज्ञानशालिकेवलिनाविति । तत्त्वनिर्णिनीषोर्हि ये भेदप्रभेदाः प्रदर्शिताः, न ते जिगीषोः सर्वेऽपि संभवन्ति । तथाहि - न कश्चिद् विपश्चिदात्मानं जेतुमिच्छति । न च केवली परं पराजेतुमिच्छति, वीतरागत्वात् । गौडद्रविडादिभेदस्तु नाङ्गनियमभेदोपयोगी, प्रसञ्जयति चानन्त्यम्; इति पारिशेष्यात् क्षायोपशमिक१० ज्ञानशाली परत्र जिगीषुर्भवतीत्येकरूप एवासौ न भेदप्रदर्शनमर्हति । यौ च परत्र तत्त्वनिर्णिनीषेोर्भेदावुक्तौ न तौ द्वावपि स्वात्मनि तत्त्वनिर्णिनीषो: संभवतः, निर्णीतसमस्ततत्त्वज्ञानशालिनः केवलिनः स्वात्मनि तच्वनिर्णयेच्छानुपपत्ते:, इति पारिशेष्यात् क्षायोपशमिकज्ञानवानेव स्वात्मनि तस्वनिर्णिनी पुर्भवतीत्य सावप्येकरूप एवेति ॥ ८ ॥
,
१५
वादिप्रतिवादिनोर्हस्तिप्रति हस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावद् चैव प्रतिवादिभिरपि भवितव्यम् ? इत्याहु:
११२८
ས
-
एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥ ९ ॥ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेतेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदप्रभेदः सहृदयैः २. स्वयमवगन्तव्यः । एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण सार्धं वादे षोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा, स्वात्मनि तत्त्वनिर्णिनीषोर्जिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीषोः स्वात्मनि तत्त्वनिर्णिनीषुणा च केवलिनश्च केवलिना सह २५ वादो न संभवत्येव; इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते । तद्यथा-वादी जिगीषुः प्रतिवादी तु जिगीषुः स्वात्मनि तत्त्व