________________
परि. ८ सू. ८] रत्नाकरावतारिकासहितः
११२७ अस्यैवाङ्गेयत्तावैचित्र्यहेतवे मेदावुपदर्शयन्ति--
अयं च द्वेधा स्वात्मनि परत्र च ॥५॥ अयमिति तत्त्वनिर्णिनीषुः, कश्चिद् खलु सन्देहाद्युपहतचेतोवृत्तिः स्वात्मनि तत्त्वं निर्णेतुमिच्छति, अपरस्तु परानुग्रहैकरसिकतया परत्र तथा, इति द्वेधाऽसौ तत्त्वनिर्णिनीषुः। सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्त्वनिर्णय चिकीर्षुरित्यर्थः । अथ परं प्रति तत्त्वनिर्णिनीषोरप्यस्य तन्निर्णयोपजनने जयघोषणमुद्घोषयन्त्येव सभ्या इति चेत् , ततः किम् ? | जिगीषुता स्यादिति चेत् , कथं यो यदनिच्छुः स तदिच्छुः परोक्तिमात्राद् भवेत् ? । तत् किं नासौ जयमश्नुते ?, बाढमश्नुते । न च तमिच्छति च, अश्नुते चेति किमपि १० कैतवं तवेति चेत् , स्यादेवम् , यद्यनिष्टमपि न प्राप्येत । अवलोक्यन्ते चानिष्टान्यप्यनुकूलप्रतिकूलदैवोपकल्पितानि जनैरुपभुज्यमानानि शतशः फलानि । तदिदमिह रहस्यम्-परोपकारकपरायणस्य कस्यचिद् वादिवृन्दारकम्य परत्र तत्त्वनिर्णिनीषोरानुषङ्गिकं फलं जयः, मुख्यं तु परतत्त्वावबोधनम् । जिगोषोस्तु विपर्यय इति ॥ ५ ॥ स्वात्मनि तत्त्वनिर्णिनीषुमुदाहरन्ति--
आद्यः शिष्यादिः ॥६॥ आद्य इति स्वात्मनि तत्त्वनिर्णिनीषुरित्यर्थः । आदिग्रहणादिहोतस्त्र च सब्रह्मचारिसुहृदादिरादीयते ॥ ६ ॥ परत्र तत्त्वनिर्णिनीषुमुदाहरन्ति
२० द्वितीयो गुर्वादिः ॥७॥ द्वितीय इति परत्र तत्त्वनिर्णिनीषुः ।। ७ ।। द्वितीयस्य भेदावभिदधति. अयं द्विविधः क्षायोपशमिकज्ञानशाली
केवली च ॥ ८॥ . .....