SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ११२६ प्रमाणनयतत्त्वालोकालङ्कारः परि. ८ स. २ इत्यादिविचित्रपत्रोत्तम्भनम् । अयि ! कपटनाटकपटो ! सित. पट ! किमतान् मन्दमेधसस्तपस्विनः शिष्यानलीकतुण्डताण्डवाडम्बरप्रचण्डपाण्डित्याविकारेण विप्रतारयसि ?; क जीवः?, न प्रमाणदृष्टमदृष्टम् , दवीयसी परलोकवाति साक्षादाक्षेपो वा, न विद्यते निरवद्यविद्यावदातस्तव सदसि कश्चिदपि विपश्चिदित्यादिना भूपतेः समुत्तेजनं च; इत्यादिर्वादारम्भः । तत्त्वनिर्णिनीषोस्तु सब्रह्मचारिन् ! शब्दः किं कथञ्चिद् नित्यः स्याद् नित्य एव वेति संशयोपक्रमो वा; कथञ्चिद् नित्य एव शब्द इति निर्णयोपक्रमो वा इत्यादिरूपः । वचन व्यक्ती सूत्रेप्वतन्त्रे, क्वचिदेकस्मिन्नपि प्रौढे प्रतिवादिनि बहवोऽपि १० संभूय विवदेरन् जिगीषवः, पर्यनुयुञ्जीरंश्च तत्त्वनिर्णिनीषयः, स च प्रौढतयैव तांस्तावतोऽप्यभ्युपैति, प्रत्याख्याति च, तत्त्वं चाचष्टे । क. चिदेकमपि तत्त्वनिर्णिनीषु बहवोऽपि तथाविधाः प्रतिबोधयेयुः । इत्यनेकवादिकृतः, स्वीकृतश्च वादारम्भः संगृह्यते ॥ २ ॥ तत्र जिगीषोः स्वरूपमाहु:१५ स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां परं पराजेतुमिच्छजिगीषुः ॥३॥ स्वीकृतो धर्मः शब्दादेः कथञ्चिद् नित्यत्वादियः, तस्य व्यवस्थापनार्थम् , यत्सामर्थ्यात् तस्यैव साधनं परपक्षस्य च दूषणम् , ताभ्यां कृत्वा परं पराजेतुमिच्छुर्जिगीषुरित्यर्थः । एतेन यौगिकोऽप्ययं जिगीषु२० शब्दो वादाधिकारिनिरूपणप्रकरणे योगरूढ इति प्रदर्शितम् ॥३॥ ___ अथ तत्त्वनिर्णिनीषोः स्वरूपं निरूपयन्तितथैव तत्वं प्रतितिष्ठापयिषुस्तत्त्वनिर्णिनीषुः॥४॥ तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्याम् , शब्दादेः कथञ्चिद् नित्यत्वादिरूपं तत्त्वम् , प्रतिष्ठापयितुमिच्छुस्तत्त्वनिर्णिनीषु२५ रित्यर्थः ॥४॥
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy