________________
परि. ८ सू. २] रत्नाकरावतारिकासहितः ११२५ तथाहि-वादी शब्दादौ नित्यत्वं स्वयं प्रमाणेन प्रतीत्यैव प्रवर्तमानोsसमानप्रतिपक्षप्रतिक्षेपमनोरथोऽहमहमिकयाऽनुमानमुपन्यस्यति, प्रतिवाद्यपि तत्रैव धर्मिणि प्रतिपन्नानित्यत्वधर्मस्तथैव दूषणमुदीरयतीति क नाम वादकथाप्रारम्भात् प्रागनवसायस्यावकाशः! । ततोऽयं सूत्रार्थः-यावेकाधिकरणावेककालौ च धर्मों विरुध्येते, तयोर्म- ५ ध्यादेकस्य सर्वथा नित्यत्वस्त्र कथंचिन्नित्यत्वस्य वा, व्यवच्छेदेन निरासेन, स्वीकृततदन्यधर्मम्य कथंचिन्नित्यत्वस्य सर्वथा नित्यत्वस्य वा, व्यवस्थापनार्थं वादिनः प्रतिवादिनश्च साधनदूषणवचनं बाद इत्यभिधीयते । सामर्थ्याच्च स्वपक्षविषयं साधनम्, परपक्षविषयं तु दूषणम्, साधनदूषणवचने च प्रमाणरूपे एव संभवतः, तदितरयो- १० स्तयोस्तदाऽऽभासत्वात् , न च ताभ्यां वस्तु साधयितुं दूषयितुं वा शक्यामिति । ननु यस्मिन्नेव धर्मिण्येकतरधर्मनिरासेन तदितरधर्मव्यवस्थापनार्थं वादिनः साधनवचनम्, कथं तस्मिन्नेव प्रतिवादिनस्तद्विपरीतं दूषणवचनमुचितं स्यात् ?, व्याघातात् ; इति चेत् । तदसत् , स्वाभिप्रायानुसारेण वादिप्रतिवादिभ्यां तथासाधनदूषण - १५ चचने विरोधाभावात् । पूर्वं हि तावद् वादी स्वाभिप्रायेण साधनमभिधत्ते, पश्चात् प्रतिवाद्यपि स्वाभिप्रायेण दूषणमुद्भावयति । न खल्वत्र साधनं दूषणं चैकनैव धर्मिणि तात्विकमस्तीति विवक्षितम् ; किन्तु स्वस्वाभिप्रायानुसरणेन वादिप्रतिवादिनौ ते तथा प्रयुञ्जाते, इति तथैवोक्ते ॥१॥
अङ्गनियमभेदप्रदर्शनार्थ वादे प्रारम्भकभेदी वदन्तिप्रारम्भकश्चात्र जिगीषुः, तत्त्वनिर्णिनीषुश्च ॥२॥
तत्र जिगीषुः प्रसह्य प्रथमं च वादमारभते, प्रथममेव च तत्त्वनिर्णिनीषुः, इति द्वावयेतौ प्रारम्भको भवतः । तत्र जिगीषो:
"सारङ्गमातङ्गतुरङ्गपूगाः ! पलाय्यतामाशु वनादमुष्मात् । २५ साटोपकोपस्फुटकेशरश्रीगाधिराजोऽयमुपेयिवान् यत्" ॥१॥