SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ अथाष्टमः परिच्छेदः। ( रत्नाकरावतारिका व्याख्या) प्रमाणनयतत्त्वं व्यवस्थाप्य संप्रति तत्प्रयोगभूमिभूतं वस्तुनिर्णयाभिप्रायोपक्रम वादं वदन्तिविरुद्धयोधर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थ साधनदूषण वचनं वादः ॥ १॥ विरुद्धयोरेकत्र प्रमाणेनाऽनुपपद्यमानोपलम्भयोधर्मयोर्मध्यादिति निर्धारणे षष्ठी सप्तमी वा । विरुद्धावेव हि धर्मावेकान्तनित्यत्वकथश्चिन्नित्यवादी वादं प्रयोजयतः, न पुनरितरौ, तद्यथा--पर्यायवद् द्रव्यं गुणवञ्च; विरोधश्चैकाधिकरणत्वैककालत्वयोरेव सतोः संभवति । अनित्या बुद्धिनित्य आत्मेति भिन्नाधिकरणयोः पूर्वं निष्क्रियम्, इदानी क्रियावद् द्रव्यमिति भिन्नकालयोश्च तयोः प्रमाणेन प्रतीतौ विरोधासंभवात् । अयमेव हि विरोधो यत्प्रमाणेनाऽनुपलम्भनं नाम, अन्यथाऽपि तस्याभ्युपगमे सर्वत्र तदनुषङ्गप्रसङ्गात्, इति विरुद्धत्वान्यथा नुपपत्तेरेकाधिकरणत्वैककालत्वयोरवगतौ । यद् न्यायभाष्ये-"वस्तुध१५ मावेकाधिकरणौ विरुद्धावेककालावनवसितौ” इति तयोरुपादानम्, तत् पुनरुक्तम्, अपुष्टार्थं वा । यदप्यत्रैवानवसिताविति, तदप्यव्यापकम्, यतो वीतरागविषयवादकथायामनवसितत्वसद्भावेऽपि जिगीषुगोचरवादकथायां तदसद्भावात् । वीतरागवादो ह्यन्यतरसंदेहादपि प्रवर्तते। जिगीषुगोचरः पुनर्वादो न नाम निर्णयमन्तरेण प्रवर्तितुमुत्सहते । १ न्या. भा. पृ. १४६ पं. ११.
SR No.009666
Book TitleSyadvada Ratnakar Part 5
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy