________________
१९३०
प्रमाणनयतत्त्वालोकालङ्कारः (परि. ८ सू. १. पार्थक्यसिद्धयर्थ द्वित्वविधानम् । तत्र वादिप्रतिवादिनोरभावे वाद एव न संभवति, दूरे जयपराजयव्यवस्था; इति स्वतःसिद्धावेव तौ । तत्र च वादिवत् प्रतिवाद्यपि चेजिगीषुः, तदानीमुभाभ्यामपि परस्परस्य शाठ्यकलहादेर्जयपराजयव्यवस्थाविलोपकारिणो निवारणार्थ लामाधर्थ वाऽपराङ्गद्वयमप्यवश्यमपेक्षणीयम् । अथ तृतीयस्तुरीयो वाऽसौ स्यात् , तथाऽप्यनेन जिगीषोर्वादिनः शाठ्यकलहायपोहाय, जिगीषुणा च प्रारम्भकेण लाभपूजाख्यात्यादिहेतवे तदपेक्ष्यत एवेति सिद्धैव चतुरङ्गता । स्वात्मनि तत्त्वनिर्णिनीषुस्तु जिगीषु प्रति वादितां
प्रतिवादितां च न प्रतिपद्यते, स्वयं तत्त्वनिर्णयानभिमाने परावबो१० धार्थ प्रवृत्तेरभावात् , तस्मात् तत्त्वनिर्णयासम्भवाच्च; इति नायमिहोत्तरत्र च निर्दिश्यते ॥ १० ॥
अनयैव नीत्या जिगीषुमिव स्वात्मनि तत्त्वनिर्णिनीषुमपि प्रत्यस्य वादिता प्रतिवादिता वा न सङ्गच्छत इति पारिशेण्यात् तृतीयतुरी
ययोरेवास्मिन् वादः सम्भवतीति तृतीयस्य तावदङ्गनियममभिदधते१५ द्वितीये तृतीयस्य कदाचिद्व्यङ्गः, कदाचित् व्यङ्गः
.
स्वात्मनि तत्त्वनिर्णिनीषौ वादिनि समुपस्थिते सति तृतीयस्य परत्र तत्त्वनिर्णिनीषोः क्षायोपशमिकज्ञानशालिनः प्रतिवादिनः, कदाचिद् व्यङ्गो वादो भवति, यदा जयपराजयादिनिरपेक्षतयाऽपेक्षितस्तत्त्वावधोधो वादिनि प्रतिवादिना कर्तुं पार्यते, तदानीमितरस्य सभ्यसभापतिरूपस्याऽङ्गद्वयस्यानुपयोगात् । न ह्यनयोः स्वपरोपकारायैव प्रवृत्तयोः शाठ्यकलहादिलाभादिकामभावाः सम्भवन्ति । यदा पुनरुत्ताभ्यताऽपि क्षायोपशमिकज्ञानशालिना प्रतिवादिना न कथं.
चित्तत्त्वनिर्णयः कर्तुं शक्यते, तदा तन्निर्णयार्थमुभाभ्यामपि सभ्या२५ नामपेक्ष्यमाणत्वात् कलहलाभाद्यभिप्रायाभावेन सभापतेरनपेक्ष.
णीयत्वात् व्यङ्गः ॥ ११ ॥ ....