________________
८१०
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ न सिध्येत् । तदेवं विविधप्रतिषेधधर्माणां सतामेव विवक्षेतराभ्यां योगस्तदर्थिभिः क्रियेतान्यथार्थनिष्पत्तेरभावात् । न ह्यर्थक्रियार्थिनामर्थनिष्पत्तिमनपेक्ष्य विवक्षेतराभ्यां योगः संभवति येन तदभावेऽ
पि स स्यात् । उपचारमानं तु स्यात् । न चाग्निर्माणवक इत्युपचारात् ५ पाकादावुपयुज्यते माणवकः । ननु चान्यव्यावृत्तय एव विवक्षेतराभ्यां युज्यन्ते न वस्तुस्वभावा यतस्तयोः सद्विषयत्वमिति चेत् । न । शब्देभ्यो वस्तुनि प्रवृत्तिविरोधात् । व्यावृत्तितद्वतोरेकत्वाध्यारोपात् तद्वति प्रवृत्तिरिति चेत् । न । अध्यारोपस्य विकल्पत्वेनाविष. यत्वात् । स्वाविषयेणार्थेन व्यावृत्तेरेकत्वारोपगायोगात् । सामान्येनार्थोऽध्यारोपविकल्पविषय एवेति चेत् । तदपि यद्यन्यव्यावृत्तिरूपं तदा व्यावृत्त्यैव व्यावृत्तरेकत्वारोपात् कुतोऽर्थप्रवृत्तिः । ततस्तामिच्छता एकैकशः परस्परव्यावृत्तयोऽपि परिणामविशेषा एषितव्याः । तस्मात्सूक्तम् — सत्सामान्यविवक्षायां सर्वेषां जीवादीनामैक्यं, कुम्भा
दिभेदविवक्षायां तु पृथक्त्वम् ' इति । प्रयोगश्चात्र, सांवृत्ताभेदवादिनं १५ सौगतं प्रति तावदेवं कर्तव्यः । अभेदः परमार्थसन्, प्रमाणगोचरत्वात् भेदवत् ! सांवृत्तभेदाभिधायिन भद्वैतवादिनं तु प्रत्येवमयं विधेयः। भेदः, परमार्थसन् , प्रमाणगोचरत्वात्, अभेदवत् । सांवृत्तभेदाभेदोभयप्रतिपादिनं शून्यवादिनं पुनः प्रतीत्थमेप विरचनीयः । भेदाभेदौ,
परमार्थसन्तौ, प्रमाणगोचरत्वात्, स्वाभिमततत्ववत् । न चैतेषु प्रयोगेषु २० साध्यसाधनधर्मविकलान्युदाहरणानि । भेदाभेदतदनुभयैकान्ताभिधायिनां यथोक्तसाध्यसाधनधर्मसहितोदाहरणप्रसिद्धेः स्याद्वादिवदिति ।
स्यादभेदश्च भेदश्च भावानां तद्व्यवस्थितः ।
एकान्तस्तु प्रमासिन्धुमध्यं नैवावगाहते ॥ ६०६॥
एवं सूक्ष्मस्थूलप्रतिभासैकान्तोऽपि प्रतीतिपराहतः । न हि २५ प्रत्यक्षे भिक्षुलक्षितं सूक्ष्मपरमाणुलक्षणमेव प्रतिभासते । स्थलन्यापि
घटाद्यात्मनः प्रतिभासनात् । ननु परमाणुष्वेवात्यासन्नासंसृष्टेषु निर्विकल्प
"Aho Shrut Gyanam"