________________
परि. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः कप्रत्यक्ष प्रतिभासमानेषु कुतश्चिद्विभ्रमनिमित्तादात्मनि परमाणुषु चासन्नमेव स्थूलमाकारं दर्शयन्ती संवृत्तिरविचारितरभ्यप्रतीतिलक्षणा तान् संवृणोति केशादिभ्रान्तिवदिति चेत् । नैवम् । बहिरन्तश्च प्रत्यक्षस्याभ्रान्तत्वकल्पनापोढत्वाभावप्रसंगेन संव्यवहारतः परमार्थतो वा ‘प्रत्यक्ष कल्पनापोढमभ्रान्तम्' इति तल्लक्षणस्यासंभवदोषानुषंगात् । ५ परमाणूनां जातुचिध्यक्षबुद्धावप्रतिभासनात् । त इमे परमाणवः प्रत्यक्षबुद्धावात्मानं च न समर्पयन्ति प्रत्यक्षतां च स्वीकर्तुमिच्छन्तीत्यमूल्यदानक्रषिणः । एतेन स्थूल एवं सूक्ष्मावयवव्यतिरिक्तोऽवयवी प्रतिभासत इति यद् वैशेषिकादिमतम् । तत्रावयव्यप्यमूल्यदानक्रया प्रतिपादितः । न ह्यवयव्यपि सूक्ष्मम्वावयवव्यतिरिक्तो महत्त्वोपेतः १० प्रत्यक्षे प्रतिभासते कुण्डादिव्यतिरिक्तदध्यादिवत् । समवायात्स्वावयवेभ्योऽर्थान्तरमिवावयवी प्रतिभासत इति चेत् । नैवम् । अवयविप्रत्यक्षस्य सर्वत्र भ्रान्तत्वप्रसंगात् । तथा चाव्यभिचारित्वं प्रत्यक्षलक्षणमसंभवि स्यात् । न चैतेऽवयवा अयमवयवी समवायश्चायमनयोरिति त्रयाकारं प्रत्यक्षमनुभूयते सकृदपि यतोऽसावप्यमूल्यदानक्रयी न स्यात् । १५ प्रत्यक्षबुद्धावात्मानर्पणेन प्रत्यक्षतास्वी करणाविशेषात् । तस्मादियं प्रत्यक्षबुद्धिर्देवदत्तादिसंनिधौ करचरणरसनवदनजघननयननासाशिरः श्रव. णभालकपोलकण्ठकन्धराम्कन्धबन्धवंशवरूणजवोरुपााद्यवयवसंनिवेशविशिष्टमा कारं बिभ्राणा सूक्ष्मस्थलाने कान्तात्मकमेव तत्त्वं स्फुटयतीत्यनुभवन्नपि सौगतो वैशेषिकादिर्वा स्वकृतान्तैकान्तावष्टम्भादावभावय- २० नात्मानं विपर्यासयन् विध्वस्त्रमानेऽपि प्राकृतजनप्रतिपन्नसन्मार्गेऽपि परिस्खलतीति सविस्मयं नश्वेतः । एवं सूक्ष्मस्थूलानेकान्तात्मके वस्तुनि स्वभावान्तरस्य प्राधान्यविवक्षायामाकारान्तरस्य गुणभाव: कुम्भोऽयं परमाणवो वेति । कुम्मार्थिनो हि कुम्भविवक्षायां कुम्भः प्रधानं परमाणवस्तु गुणीभूतास्तदनर्थित्वादविवक्षाप्रसिद्धेः । परमाण्व- २५
१ न्या. वि. पृ. ११.
"Aho Shrut Gyanam"