________________
८१२
प्रमागनयतत्त्वालोकालङ्कारः परि. ५ सू. ८ र्थिनस्तु तद्विवक्षायां परमाणव एव प्रधान न पुन: कुम्भस्तद्विवक्षायाः संभवाभावात्तदर्थित्वानुपपत्तेः । न च तदुभयसत्ताविशेषादविशेषेणार्थित्वमनार्थत्वं वा प्रसज्यते । तयोः कुम्भादिसत्तानात्रानिबन्धनत्वा
मोहविशेषोदयस्यापि मिथ्यादर्शनादिकालादिनिमित्तकत्वात् । तदित्थं ५ प्रतीत्यनुरोधेन सूक्ष्मस्थूलाकारात्मकं वस्तु प्रेक्षावद्भिः प्रतिपत्तव्यम् ।
शतशः पराकृतोऽपि स्वमतप्रीत्याकुलीकृतस्वान्तः । स्थूलार्थमसहमानः किमपि ब्रूतेऽत्र सुगतसुतः ॥ ६०७ ॥
परमाणूनामन्योन्यं संबन्धाभावतः स्थूलाकारप्रतीतेन्तत्वात् कथं तद्वशानदात्मकं वस्तु स्यात् । संवन्धी हि स्वरूपेणैव तावन्न संभवति । तथायपमर्थानां पारतव्यलक्षणो वा स्यात्तादात्म्यापरपर्यायरूपाश्लेषलक्षणो वा । प्रथमपक्षे किमसौ निप्पन्नयोः संबन्धिनोः स्यादनिप्पन्नयोर्वा । न तावदनिष्पन्नयोः । स्वरूपस्यैवासत्त्वात् तुरगखरविषाणवत् । निष्पन्नयोश्च पारतन्ध्यामावादसंबन्ध एव । तदाह कीर्तिः
'पारतन्त्र्यं हि संबन्धसिद्धिका परतन्त्रता ।।
तस्मात्सर्वस्य भावस्य संबन्धो नास्ति तत्वतः ॥' नापि यथोक्तरूपश्लेषलक्षणोऽसौ । संबन्धिनोत्वेि तस्य विरोधात् । तयोरक्ये वा सुतरां तदभावः । द्विष्ठत्वात्संबन्धस्य । अथ नैर
न्तयं तयोरूपाश्लेषः। न । अस्यान्तरालामावरूपत्वे तात्त्विकत्वायोगात्। २० प्राप्तिरूपत्वेऽपि प्राप्तेः संयोगापरनामिकायाः परमार्थतः कात्स्न्यैकदेशाभ्यामसंभवात् ।
'तस्मात्प्रकृतिभिन्नानां संबन्धो नास्ति तत्त्वतः॥' किं च । परापेक्षयैव संबन्धः । तस्य द्विष्ठत्वात् । परं चापेक्षते. भावः स्वयं सन्नसन्वा । न तावदसन् ! तम्यापेक्षाधर्माश्रयत्वविरोधात् १' निष्पन्नयोस्तु ' इति न. पुस्तके पाठः ।
"Aho Shrut Gyanam"