________________
परि. ५ सू.८]
स्याद्वादरत्नाकरसहितः
खरशृङ्गवत् । नापि सन् । तस्य सर्वनिराशंसत्वात् । अन्यथा सत्त्वविरोधात् । तन्न परापेक्षा नाम, यद्रूपः संबन्धः सिध्येत् । उक्तं च -
'परापेक्षा हि संबन्धः सोऽसन्कथमपेक्षते ।
संश्वं सर्वनिराशंसो भावः कथमपेक्षते ॥' किं चासौ संबन्धः संबन्धिभ्यां भिन्नः स्यादभिन्नो वा । यद्य- ५ भिन्नस्तदा संबन्धिनावेव न संबन्धः कश्चित् । भिन्नश्चेत्तर्हि संबन्धिनौ केवलौ कथं संबद्धौ स्याताम् । संबन्धान्तरं विना संबन्धिभ्यां सह कथं भिन्नः संबन्धः संबध्यते । संबन्धान्तराभ्युपगमे चानवस्था स्यात् । तत्रापि संबन्धान्तरानुषंगात् । तत्कः संबन्धमतिः सुदूरमपि गत्वा द्वयोरेकाभिसंबन्धमन्तरेणापि संबन्धे प्रथममेव तथास्तु किमेकाभिसंब- १० न्धेन तथा वचनसंबन्धमतिः । केवलयोः संबन्धिनोरतिप्रसंगात् । यदि च संबन्धिनौ संबन्धश्च स्वेनासाधारणेन रूपेण स्वलक्षणापरनाम्ना स्थितास्तदा सिद्धममिश्रणमर्थानां परमार्थतः । तदाह
'द्वयोरेकाभिसंबन्धासंबन्धो यदि तद्वयोः।
कः संबन्धोऽनवस्था च न संबन्धमतिस्तथा ॥' १५ तद्वयोः कः संबन्ध इति चेत् । अत्र तच्छब्दस्तर्हिशब्दार्थः । ततोऽयमर्थः । संबन्धाख्यैकवस्तुसद्भावाद्वौ संबन्धौ भवत इति यदि कल्प्यते तर्हि द्वयोः संबन्धिनोः कः संबन्ध एकेन संबन्धेन सहेति । तथा---
'तौ च भावौ तदन्यश्च सर्वे ते स्वात्मनि स्थिताः। १०
इत्यमिश्रः स्वयं भावास्तान् मिश्रयति कल्पना ॥' । अस्यार्थ:-तौ च भावौ संबन्धिनौ ताभ्यामन्यश्च संबन्धः । सर्वे ते स्वात्मनि स्वस्वरूपे स्थिताः । तेनामिश्रा व्यावृत्तस्वरूपाः स्वयं भावास्तथापि तान्मिश्रयति योजयति कल्पनेति । अत एव च वास्तवसंबन्धाभावेऽपि तामेव कल्पनामनुरुन्धानैर्व्यवहर्तृमिर्भावानां भेदस्या- २५ न्यापोहायरपर्यायस्य प्रत्यायनाय क्रियाकारकादिवाचिनः शब्दाः प्रयु
"Aho Shrut Gyanam"