________________
८१४
प्रमाणनयतत्त्वालोकालङ्कारः [परि. ५ सू. ८ ज्यन्ते देवदत्त गामभ्याज शुक्लां दण्डेनेत्यादयो न खलु कारकाणां क्रियया संबन्धोऽस्ति । क्षणिकत्वेन तत्काले तेषामसंभवात् । तदुक्तम्--
' तामेव चानुरुन्धानैः क्रियाकारकवाचिनः । __ भावभेदप्रतीत्यर्थं संयोज्यन्तेऽभिधासकाः॥'
कार्यकारणभावस्तार्ह संबन्धो भविष्यतीत्यप्यसमीचीनम् । कार्यकारणयोः सहभावाभावात् । न खलु कारणकाले कार्यम् । तत्काले वा कारणमस्ति । तुल्यकाले कार्यकारणभावानुपपत्तेः । सव्येतरगो
विषाणवत् । तन्न संबन्धिनौ सहभाविनौ विद्येते येनानयोर्वर्तमानः १० संबन्धः स्यात् । अद्विष्ठे च भावे संबन्धतानुपपन्नैव । तदाह
' कार्यकारणभावोऽपि तयोरसहभावतः ।
प्रसिद्धथति कथं द्विष्ठोऽद्विष्ठे संबन्धता कथम् ।।' कारणे कार्ये च क्रमेणासौ संबन्धो वर्तत इत्यप्यसांप्रतम् । यतः
'क्रमेण भाव एकत्र वर्तमानोऽन्यनिस्पृहः । ___ तदभावेऽपि तद्भावात्संवन्धो नैकवृत्तिमान् ॥'
अभ्यार्थ:-क्रमेणापि भावः संबन्धाख्य एकत्र कारणे कार्वे वा वर्तमानोऽन्यनिस्पृहः कार्यकारणयोरन्यतरानपेक्षो नैकवृत्तिमान् संबन्धो युक्तस्तदभावेऽपि कार्यकारणयोरभावेऽपि तद्भावादिति ।
' यद्यपेक्षितयोरेकमन्यत्रासौ प्रवर्तते ।
उपकारी ह्यपेक्षः स्यात्कथं चोपकरोत्यसन् ।' व्याख्या----यदि पुनः कार्यकारणयोरेकं कार्य कारणं वापेक्षान्यत्र कार्ये कारणे वासौ संबन्धः क्रमेण वर्तत इति सस्पृहत्वेन द्विष्ठ एवे. प्यते । तदा तेनोपेक्ष्यमाणेनोपकारिणा भवितव्यम् । यस्मादुपकारी अपेक्ष्यः स्यान्नान्यः । कथं चोपकरोत्यसन् । यदा कारणकाले कार्या
२०
"Aho Shrut Gyanam"