________________
परि. ५ मू. ८ स्याद्वादरत्नाकरसहितः ख्यो भावोऽसन् । तत्काले वा कारणाख्यस्तदा नैवोपकुर्यादसामर्थ्यात् । किं च
'यद्यकार्थाभिसंबन्धात्कार्यकारणता तयोः ।
प्राप्ता द्वित्वादिसंबन्धात्सव्येतरविषाणयोः ॥ द्विष्टो हि कश्चित्संबन्धो नातोऽन्यत्तस्य लक्षणम् ।' ५ अस्य सार्धश्लोकस्यार्थः । द्विष्ठो हि कश्चित्पदार्थः संबन्धः । नातोऽन्यत्तस्य लक्षणम् । ततश्च योकेनार्थेन संबन्धलक्षणेन योग एव कार्यकारणत्वम् । तदा द्वित्वसंख्यापरत्वापरत्वाद्येकार्थसंबन्धात् सव्येतरविषाणयोरपि कार्यकारणता प्रातेति । क्वचिद् द्वित्वाभिसंबन्धा. दिति पाठः । स च स्पष्टार्थः । किं च
'भावाभावोपधिर्योगः कार्यकारणता यदि । योगोपाधी न तावेव कार्यकारणतात्र किम् ।।
भेदाचेन्नन्वयं शब्दो नियोक्तारं समाश्रितः ।' अस्यार्थ:-स्थिते कार्यकारणरूपत्वे तदाक्षिप्तः संबन्धः कार्यकारणभाव इति । कस्मिंश्चित्सति भावस्तभावे चाभावः कार्यकारण- १५ भावो यस्तद्विशिष्टः संबन्धः कार्यकारणभावो भवति । तदेतद्यदीप्यते तदा संबन्धस्य विशेषणतया यावभिमतौ भावाभावौ तावेव कार्यकारणभावो भवतु । किंतु कार्यकारणयोरपरेण कार्यकरणं भावेन संबन्धेन प्रतिलब्धकार्यकारणरूपयोहि किमपरेण संबन्धेन । तावतेव वस्तुपर्यवसानात् । तथाविधेन स्वरूपप्रतिलम्भेन तु संबन्ध आक्षि- २० प्यत इति न्यायो नाप्यनुभव इति ! न युक्तमेतत् । ननु कार्यकारणयोः संबन्ध इति भेदाद्भवितव्यं तथाभूतयोरपि संबन्धेनेति चेत् । तयुक्तम् । यतः शब्दोऽयं नानुभवः । सोऽपि च संकेतप्रयोक्तृपरतन्त्रो नार्थाश्रय इति नैवमादेर्वस्तुव्यवस्थेति तावेव कार्यकारणतेति युक्तम् ! न त्वपरः संबन्धः । तथा हि--
"Aho Shrut Gyanam"