________________
परि. ५ सू. ८ ] स्याद्वादरत्नाकरसहितः कां प्रकृतिमङ्गीकुरुषेऽनेकान्तं पुनः पराकुरुष इति महकैतवम् । किं चामी सपक्षविपक्षयोर्भावाभावाभ्यां समन्वितमेतत्साधनमिच्छन्ति । स्यांद्वादं तु नेच्छन्तीति स्वच्छन्दवृत्तयः । तदेवमेते दुस्तर्कतिमिरतिरस्कृतमतिप्रकाशाः कुतीर्थ्याः सकलवादमूर्धाभिषिक्तमनेकान्तवादमनङ्गीकुर्वाणाः स्वदर्शनमपि व्यवस्थापयितुं न पटीयांस इत्युपेक्षापात्र- ५ मेव न्यायवेदिनाम् । ततः स्थितमेतत् । सत्सामान्यविवक्षायां सर्वेषामैक्यम् ! कुम्भादिभेदविवक्षायां तु पृथक्त्वम् । इतरस्यां विवक्षायां गुणाभावात् । नन्वयुक्तमेतद् विवक्षाविवक्षयोरसद्विषयत्वेन तदशात् पृथक्त्वैकत्वयोर्व्यवस्थानानुपपत्तेरिति चेत् । तदसंबद्धम् । अनन्दधर्मात्मके वस्तुनि विशेष्यविशेषणयोः पृथक्त्यैकत्वयोः सतोरेव तदर्थिभिः प्रति- १०. पत्तभिर्विवक्षाया अविवक्षायाश्च करणान्न त्वसतोः । असति कस्यचिद् अर्थित्यार्थित्वयोरसंभवात् । तस्य सकलार्थक्रियाशक्तिशून्यत्वात् खरविषाणचत् । न हि कस्यचिद्विवक्षाविषयस्य मनोराज्यादेरसत्वे सर्वस्यासत्त्वं युक्तम् । कस्यचित्प्रत्यक्षविषयस्य केशोण्डुकादेरसत्त्वे सर्वस्य प्रत्वाविषयस्यासत्त्वप्रसंगात् । प्रत्यक्षाभासविषयस्यासत्त्वं न पुनः सत्य- १५ प्रत्यक्षविषयम्येति चेत् । तसत्यविवक्षाविषयस्यासत्त्वमस्तु । सत्यविवक्षाविषयस्य तु माभूत् । न काचिद्विवक्षा सत्या विकल्परूपत्वान्मनोराज्यादिविवक्षावदिति चेत् । न । अस्यानुमानस्य सत्यत्वेऽनेनैव हेतो~भिचारात् । तदसत्यत्वे साध्याप्रसिद्धेः । यतोऽनुमानविकल्पादथ परिच्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते तद्विषयः सन्नेवेति चेत् । २० तर्हि यतो विवक्षाविशेषादर्थं विवक्षितत्वात्प्रवर्तमानो न विसंवाद्यते तविषयः कथमसन् भवेत् । अविवक्षाविषयोऽसन्नेव । अन्यथा तदनुपपत्तेरिति चेत् । न । सकलवाग्गोचरातीतेनार्थस्वलक्षणेन व्यभिचारात् । सर्वम्य वस्तुनो वाच्यत्वात् नाविवक्षाविषयत्वमिति चेत् । न । नाम्नन्तद्भागानां च नामान्तराभावादन्यथानवस्थानुषंगात् । तेषामवि- २५ वक्षाविषयत्वेऽपि सत्त्वे कथमन्यदपि विशेषणमविवक्षाविषयत्वे सदेव
"Aho Shrut Gyanam"