________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. ५ सू. ८
यतः स्वस्वभावे सर्व एव भावा व्यवस्थिता नातः परस्परं स्पन्दन्ते । तस्मात् स्वभावेनासंसर्गिणा समानजातीयविजातीयाद् व्यावर्तन्ते । यतश्चैवं तस्माद् यतो यतो व्यावर्त्यादर्थादर्थान्तराणां व्यावृत्तानां व्यावृत्तिस्तन्निबन्धना । विशिष्टव्यावर्त्यविषयव्यावृत्तिनिबन्धना जाति५ भेदाविशिष्टा जातयः शब्दवाच्या: परिकल्पन्ते । तथा ह्येकस्य घटस्य यथाऽघटाद् व्यावृत्तिस्तथाऽन्येषां घटानाम् । सा च साधारणा व्यावृत्तिः शब्दवाच्या जातिरुच्यते । तस्य स्वलक्षणस्य ये विशेषास्तानवगाहन्त इति । आरोपितजातिप्रतीतौ स्वलक्षणविशेषस्याध्यवसायस्तदवगाहनम् । तस्मादन्यान्यव्यावर्त्यव्यपेक्षया व्यावृत्तयः परिक२० ल्पितमेदा विकल्पैर्विषयीक्रियन्ते । यस्मान्न वस्तुस्वरूपमेकमनेकव्यावृत्तिकं विकल्पेन प्रत्यक्षवद्विषयीकर्तुं पार्थते । व्यावृत्तौ च व्यावर्त्यविशिष्टायामेकस्यां विषयीकृतायामन्यस्या व्यावर्त्यान्तरव्यावृत्तेरविषयीकरणाद्भिन्नाभिन्नविषया विकल्पात्मका व्यवस्थितिरिति
८०८
....
....
....
२५ हेतुद्वयमप्येतन्नासिद्धम् । तदेकान्तवादिनां तथाभ्युपगमात् । नाप्यैकान्तिकं विरुद्धं वा विपक्षे वृत्त्यभावात् । ततः परस्परसापेक्षाभ्यां पृथक्त्वैकत्वाभ्यां न जीवादिवस्तु विरुध्यत इत्यभ्युपगन्तव्यम् । नन्वेकं परस्परविरुद्धोभयाकाराकान्तमित्यतिसाहसम् । हन्त कः सन्नेवं प्रत्यवतिष्ठते । ताथागतश्चेत्, तत्किंचिन्निवेदनं नीलादिनिर्मासैरद्वयसं२० वेदनं न ग्राह्यग्राहकाकारविवेकसंविदाकारैरनेकैराकीर्णमप्येकं स्वीकुवर्ग: सन्नेवं जल्पन् न लज्जसे | ब्रह्मवादी चेत्तर्हि परब्रह्मतेज:शब्दज्ञानज्योतिराकारैर्विद्येतराकारैवानेकैः परिकरितमप्येकं प्रतिपद्यसे । स्याद्वादे तु विप्रतिपद्यस इति किमपि वैशसम् । वैशेषिकादिश्चेत् । तदा स्वारम्भकावयवैरनेकैरप्यारव्धमेकस्वभावं कुम्भा२५ दिकमभ्युपगच्छसि स्याद्वादे पुनर्दषणं प्रयच्छतीत्यनस्पतमतमोविलसितम् । कापिलश्चेत् । तर्हि सत्त्वरजस्तमोभिरने कैरप्याकीर्णामे
" Aho Shrut Gyanam"