________________
परि. ५ स. ८)
स्याद्वादरत्नाकरसहितः
८०७
चासिद्धस्तयोः स्वरूपभेदः । तादात्म्यस्य स्वरूपभेदापरपर्यायत्वात् । प्रागसतः सत्तासमवायात् कार्यस्योत्पत्तेर्युक्तमेव सत्तासमवाययोः कल्पनमिति चेत् । मैवं, अनुत्पन्नस्य सत्तासमवायासंभवात् उत्पन्नस्यापि तद्वैयर्थ्यात् । स्वरूपलाभस्यैव स्वरूपसत्तात्मकत्वात् स्वरूपेणासतः सचासंबन्धेऽतिप्रसंगात् । तदित्थं कार्यकारणयोः परस्परप्रतिबन्धहेतोः ५ समवायम्यानुपपत्तेः स्वरूपेणोत्पत्त्यभेदाभ्युपगमे देशकालाभ्यामपि तयोरत्यन्तभेदः स्यादित्यायातम् । तन्न वैशेषिकाद्यभ्युपगतः कार्यकारणयोभैदैकान्त: कथंचिदुपपद्यते । तम्माझेदाभेदः म्बीकर्तुं हेतुकार्ययो. युक्तः । एकान्तस्तु न संगतिमञ्चति तीर्थान्तरीयाणाम् । एवं समस्तवस्तुविषयोऽपि भेदाभेदैकान्तः परपरिसूत्रितः प्रमाणबाधितः । न खल्व- १० भेदैकान्तोऽद्वैतवादिसंमतः स्वमेऽपि प्रतीतः । सत्सामान्यात्मना जीवादिवस्तूनामभेदस्येव कुम्भाद्यात्मना भेदस्यापि प्रतीयमानत्वात् । नापि भेदैकान्तं पदार्थानां ताथागतप्रार्थितं कदाचिदनुभवामः । कुम्भाधात्मना भेदस्येव सत्सामान्यात्मना तेषामभेदस्याप्यनुभूयमानत्वात् । अत्राह बौद्धः-कथमैक्यं भावानाम् । स्वभावसांकर्यापत्तेः । न १५. चाभावाः परस्परमात्मानं मिश्रयन्ति । भेदप्रतीतिविरोधात् । तेषामतत्कार्यकारणव्यावृत्त्या समानव्यवहारभाक्त्वेऽपि परमार्थतोऽसंकीर्णस्वभावत्वात् । तदुक्तम्-- ' सर्वे भावाः स्वभावेन स्वस्वभावव्यवस्थिताः । स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिमागिनः । तस्माद्यतो यतोऽर्थानां व्यावृत्तिस्तनिवन्धनाः। जाति- २० भेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः ।। तस्माद्यो येन धर्मेण विशेषः संप्रतीयते । न स शक्यस्ततोऽन्येन तेन भिन्ना व्यवस्थितिः । अयमर्थः । सर्वे भावा नतु कतिपये स्वभावात्सजातीयात् परभावाद्विजातीयाच्च व्यावृत्तिं भजन्त इति घिनुण । स्वभावेन स्वलक्षणेनाकल्पितेन व्यावृत्तिभागिन इति संबन्धः । कस्मात्पुनः स्वभावेन २५ व्यावर्तन्त इति स्वस्वभावव्यवस्थितेः कारणात् । एतदुक्तं भवति ।
"Aho Shrut Gyanam"