________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. ५सू. ८.
1
सिद्धेः किं पदार्थतद्भेदप्रभेदपरिकल्पनयेति विज्ञानवादप्रवेशः स्यात् । ततः स्थाल्यां संयोगवृत्त्यां वर्तमानेन दनानैकान्तिकत्वं प्रकृतहेतोः । ततोऽसिद्धविरुद्धानैकान्तिककालात्ययापदिष्टप्रकरणसमाख्यदूषणमुद्गरनिर्दलितशरीरत्वान्न भिन्नप्रतिभासत्वादिति हेतुः कार्यकारणयोरत्यन्त५ भेदमर्पयितुं प्रभवतीति । किं च कारणात्कार्यस्य स्वरूपेणात्यन्तभेदे देशकालाभ्यामपि तस्य ततो भेदप्रसक्तिः । अथात्माकाशयोः स्वरूपेणात्यन्तभेदेऽपि देशकालाभ्यां भेदाभावान्न ततः कार्यकारणयोस्तद्धेदप्रसक्तिरिति चेत् । मैवम् । आत्माकाशयोरपि सत्त्वद्रव्यत्वादिना भेदाभावादत्यन्तभेदासिद्धेरभिन्नदेशकालत्वाविरोधात् । स्वरूपेणात्यन्त१० भिन्नानामप्येकद्रव्यवर्तिनां वर्णादीनां देशकालाभेदेनोपलम्भात्तैर्व्यभिचार इति चेत् । मैवम् । तद्व्यतिरेकैकान्तानभ्युपगमात् । यथैव हि वर्णगन्धरसस्पर्शादीनां स्वाश्रयादत्यन्तभेदो नेष्टो दृष्टो वा तथा परस्परतोऽपीति न तैर्व्यभिचारः । ननु स्वरूपभेदेऽपि कार्यकारणयोः समवायेन परस्परं प्रतिबन्धात्कुतो देशकालाभ्यां भेदप्रसक्तिरिति चेत् । १५ समवायस्तर्हि समवायिनोः कार्यकारणयोः समवायान्तरेण तस्य तत्र वृत्तायनवस्थाप्रसंगात् । स्वतो वृत्तौ द्रव्यादेरपि तथोपपत्तेः । समवावैयर्थ्यात् कार्यकारणयोः कुतः परस्परं प्रतिबन्धः स्यात् । यदि पुनरनाश्रितत्वात् संबन्धान्तरानपेक्षः समवायोऽभिमन्यते तदाप्यसंत्रद्धोऽसौ कथं द्रव्यादिभिः सह वर्तेत यतः पृथक् सिद्धिर्न स्यात् । न २० ह्यसंबद्ध एव समवायिभिः समवायसंबन्धो युक्तिमान् कालादेरपि संबद्वत्वप्रसंगात् । संबद्ध एव हि स्वसंबन्धिभिः संयोगसंबन्धो दृष्टस्तस्य तैः कथंचित्तादात्म्यसंबन्धात् । समवायोऽपि विशेषणविशेष्यभावसंबन्धात् समवायिभिः संबद्ध इति चेत् । न । तस्यापि विशेषणविशेष्यभावान्तरेण स्वसंबन्धिभिः संबन्धेऽनवस्थाप्रसंगादन्यथा संबन्धत्व - २५ विरोधात् । तस्य स्वसंबन्धिभिः कथंचित् तादात्म्ये कार्यकारणयोरपि तदेवास्तु किं समवायेन पर्यायान्तरभूतसत्तासामान्येनेव कल्पितेन । तथा
८०६
" Aho Shrut Gyanam"