________________
परि. ५ सू. ८]
स्याद्वादरत्नाकरसहितः
८०५
८०५
कालात्ययापदिष्टश्च । प्रत्यक्षबाधितपक्षानन्तरमुपन्यस्तत्वात् । प्रत्यक्षेण हि तन्त्वादिकारणपटादिकार्ययोः कथंचित्तादात्म्यमेव प्रतीयते न त्वेकान्तभेदः । प्रकरणसमश्च । विवादापन्न कारणत्वात् । कार्यम् , एकान्तेन नान्यत्, तत्र तम्य वर्तमानत्वान्यथानुपपत्तेः । इत्यनुमानम्य प्रतिपक्षप्रसाधकस्य भावात् । ननु तत्र तस्य वर्तमानत्वमनैकान्तिकं ५ व्यक्तिषु वर्तमानस्यापि सामान्यस्य ततोऽत्यन्तमन्यत्वात् । तदप्यसत्यम् । अत्यन्तान्यत्वस्य सामान्ये सामान्यविशेषानेकान्तवादचर्चायां सविस्तरमपास्तत्वात् तथाभूते तत्र वृत्तनिवारयिष्यमाणत्वाच । ननु तथापि स्थालीस्थितेन दन्नानकान्तिकमेतत् । ततोऽन्यस्यापि दध्नस्तत्र वर्तमानत्योपलब्धः । संयोगो ह्यत्र वृत्तिः । स चार्थान्तरभूतयोरेव १० प्रतीयत इति चेन्न । संयोगिनोः संयोगपरिणामात्मनोः सर्वथान्यत्वासिद्धिः । अन्यथा तदभावप्रसंगात् । ताभ्यां भिन्नस्य संयोगस्योत्पत्तौ हि कथं स्थालीदनोः संयोग इति व्यपदेशः स्यात् । ताभ्यां तस्य जननात् तथा व्यपदेश इति चेत् । न । कर्मणा कालादिना च तज्जननातथा व्यपदेशप्रसंगात् । स्थालीदनोः समवायि- १५ कारणत्वाद्युक्तः संयोगस्य तथा व्यपदेश इति चेत् । कुतः समवायित्वं तयोरेव न पुन: कर्मादेरिति नियमः । इह संयोगिनोः संयोग इति प्रत्ययात्तत्र तस्य समवायसिद्धिरिति चेत् । स तर्हि समवायः पदार्थान्तरभूतः कथमत्रवेहेदमिति प्रत्ययं कुर्यान्न पुनः कर्मादिषु दधिस्थालीभ्यामेव समवायिभ्यां विशेषणविशेष्यभावसिध्या समवायस्य २० तत्रैवेहेदमिति प्रत्ययोत्पत्तिः । ननु कर्मादिषु तदसिद्धेरिति चेत् । समवायस्य विशेषणविशेष्यभाव एव कुतः सर्वत्र न स्यात् । तादृगदृष्टविशेषनियमादिति चेत् । तर्हि किं विशेषणविशेष्यभावेन समवायेन संयोगेन वा कार्य तादृगदृष्टविशेषादेव समवायविशिष्टाः समवायिन इति प्रत्ययस्येहेदं समवेतमिति विज्ञानस्यानेदं संयुक्तमिति २५ बुद्धेश्च जननप्रसंगात् । सर्वस्य वा प्रत्ययविशेषस्यादृष्टविशेषवशवर्तित्व
"Aho Shrut Gyanam"