________________
८०४
प्रमाणनयतत्वालोकालङ्कारः परि. ५ स. ८ चात्र हेतुरसिद्धः । साध्यधामणि भिन्नप्रतिभासत्वस्य सद्भावनिश्चयात् । नाप्यनैकान्तो विरुद्धो वा । विपक्षादत्यन्तं व्यावृतैः । नापि कालात्ययापदिष्टम् । पक्षस्य प्रत्यक्षागमाभ्यामबाधितत्वात् । नापि प्रकरणसमः । प्रतिपक्षोत्थापकस्यानुमानस्यासंभवात् । ननु कार्यकार५ णयोस्तादात्म्य, अभिन्नदेशत्वात् । ययोरतादात्म्यं न तयोरभिन्नदेशत्वम् । यथा सह्यविन्धयोः । अभिन्नदेशत्वं च प्रकृतयोः । तस्मात् तादात्म्यमिति प्रतिपक्षजीवातुर्विद्यत एवानुमानमिति चेत् । न शास्त्रीयदेशाभेदस्यासिद्धत्वात् । कार्यस्य स्वकारणदेशत्वात् । कारण
स्यापि स्वकारणदेशत्वात् । लौकिकदेशभेदस्य तु व्योमात्मादिभि१० र्व्यभिचारादस्यानुमानस्य प्रतिपक्षोत्थापकत्यानुपपत्तेः । ततश्च कथं प्रकरणसमत्वस्यात्रावकाशः ।
अभ्युपगम्या तस्माद् विभिन्नतैवात्र कार्यकारणयोः । यस्यां भजते न्यायः साक्षात् साक्षित्वमक्षुणम् ॥ ६०४ ।। एवमिह योगशिष्यैः कृतं स्वपक्षप्रसाधनमिदं तु ।
वैदग्धीदयितानां विभासते दुर्भगाभरणम् ।। ६०५॥ तथाहि-यत्तावत्कार्यकारणे अत्यन्तभिन्न इत्याद्यनुमानमुक्तम् । तत्र भिन्नप्रतिभासत्वं किं सर्वथा विवक्षितं कथंचिद्वा । प्रथमपक्षे प्रतिवाद्यसिद्धो हेतुः । कार्यकारणयोः सर्वथा भिन्नप्रतिभासत्वस्य
स्याद्वादिनामसिद्धत्वात् । द्वितीयपक्षे तु वाद्यसिद्धिः । तयोः कथं२० चिद्भिन्नप्रतिमासत्वस्य योगैरनङ्गीकरणात् । विरुद्धश्चान्न पक्षे हेतुः ।
साध्यविपर्ययसाधनात् । कथंचिद् भिन्नप्रतिभासत्वस्य सिषाधयिषितत्वात् । न भेदविपरीतेन कथंचिद्भेदेनैवाविनाभूतत्वात् । अथ सर्वथा कथंचिद्वेत्येवंरूपौ विशेषविकल्पो परित्यज्य भिन्नप्रतिभासत्वमात्रं हेतु
त्वेनोपादीयते । तथापि संदिग्धविपक्षल्यावृत्तिकत्वेनानैकान्तिको हेतुः । २५ कथंचित्तादात्म्येऽपि कार्यकारणयोभिन्नप्रतिभासत्वमात्रस्याविरोधात् ।
१ जीवातुः--जीवनौषधम् ।
"Aho Shrut Gyanam"